SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ भूमिका. अथ वसुवेदार्षिभूसमिते क्रिस्तसंवत्सरे 1748 A. D. महमदालि इत्यस्य यवनेश्वरस्य आर्काड्नवास्थानं बलादाक्रम्य स्ववशे कर्तुं यतमानस्य साहाय्यमाकांक्षमाणस्य साहाय्यविधानप्रतिफलतया त्रिचनापल्लिनगरार्पणं तेन प्रतिश्रावयित्वा साहाय्यं कर्तुमारभत नञ्जराजः । दलवाइदेवराजस्य यद्यपीदं नाभिमतम् । अथाप्ययं लोभेनैतदकरोत् । सत्यप्येवम, आंग्लेयानां सहायबळेनैव महमदाली आर्काटनबाबस्थानमलभत । अत एव च यथाप्रतिश्रुतं नञ्जराजाय त्रिचनापल्लिनगरं दातुमतृप्तः सन् तत्समीपस्थं श्रीरङ्गं तत्सन्निहितं च ग्रामं तद्वशे व्यसृजत् । स च नाराजः अप्रातमनोरथः अन्तः सम्भृतक्रोधः कश्चित्कालं श्रीरङ्गे वर्तमानः प्राञ्च ( French ) देशीयैः सह कृतप्रणयस्तेषां सहायवलेन त्रिचनापल्लिनगरं बलाद्रहीतुं प्रायतत । परमस्य स प्रयत्नो वितथोs. भूत् । अथांग्लेयैः सह सन्धि कर्तुं प्रायतत । सोऽपि प्रयत्नो वितथोऽभूत् । एतस्मिन्नन्तरे- डेक्कन् सुबेदार सलबत्जमाख्यः ( पार्थिवेभ्यः करग्रहणाय सार्वभौमेण दक्षिणविभागे स्थापितः) अस्मद्देशात् करं नेतुं समागतः ससैनिकः श्रीरङ्गपट्टणं प्रतिरुणद्धि, तदत्र प्रतिविधेयम् सपदि, तदागन्तव्यं त्वरयेति, कश्चन सन्देशो दलवाइदेवराजसकाशात् समाययौ, सन्देशं प्राप्य स नाराजस्ततः श्रीरंगपट्टणं प्रति प्रतस्थे । नञ्जरानागमनं प्रतीक्षमाणेनापि दलवाइदेवराजेन सलवतजङ्गस्याग्रहेणागत्या तदागमनतः प्रागेव पञ्चाशल्लक्ष ( 5000000 ) रूप्याणां कररूपेणार्पणं प्रतिश्रुत्य तेन सलबतजङ्गेन सह सन्धिरकारि । अथ प्रत्यागतो नञ्जराज इदमुपश्रुत्य राज्यस्य समुपागतमार्थिक क्लेशं प्रशमयितुं व्ययं न्यूनीकुर्वन् सैन्यं न्यनीचकार । ___अथ जातु मन्त्रिणां सर्व राज्यकार्य स्वातन्त्र्येणैव कुर्वतां निरङ्कुशस्वातन्त्र्यं क्रमशो न्यूनीकर्तुं प्रयतमानस्य कृष्णराजभपतेः प्रवृत्तिं नञ्जराजो विज्ञाय प्रवृत्तावस्यां ये राज्ञः सहायभतास्तांतीक्ष्णेन दण्डेन निग्रहीतुं प्रवृत्तो दलवाइ देवराजेन भ्रात्रा प्रतिरुद्धयमानोऽपि तद्वचनमवीर्य एकस्मिन्नहनि राज्ञः सभायां पश्यत एव राज्ञस्तेषां कर्णनासं व्यच्छेदयत् । इदं दारुणं कर्मासहमानो देवराजः परित्यज्य राज्ये स्वपदं, स्वयमुदीसीनो भूत्वा ऋषिबाणार्षिभूसंम्मिते क्रिस्ताब्दे ( 1757 A. B. ) सत्यमङ्गलनामकं ग्रामं प्राप्य तत्रैव सुखेन तस्थौ । अथास्मिन् समये माहाराष्ट्राः सैनिकाः श्रीरङ्गपट्टणं परितः परिवृत्य प्रतिरुरुत्रुः । तं प्रतिरोधं द्वितीयेनोपयेन प्रशमयंस्तेभ्योद्वात्रिंशल्लक्षरूप्याणि राज्यादस्माद्दीयेन्निति प्रतिश्रुत्य यथाप्रतिश्रुतं तत्पूरणाय कतिपयग्रामेभ्यो राजभागं करं साक्षाद्रिहातुं तेभ्योऽनुमति प्रादात् । तेऽपि माहाराष्ट्राः स्वेषु प्रधानान् कांश्चन सैन्यंच परिमितं प्रजाभ्यः करमाहर्तुं तेषुतेषु ग्रामेषु स्थापयित्वा स्वदेशं ययुः । नञ्जराजस्तु राज्यस्य संजातेनानेनार्थिकक्लेशेन कथमपि प्रजाभ्योऽर्थसंग्रहाय प्रवृत्तः अगत्या हैदराख्येन सेनान्या यो ग्रामादिः पारितोषिकतया पुरा प्राप्तस्ततोऽप्यायांशं तस्य न्यूनीचकार । स तु सेनानीस्तदा दिण्डुकल्यामे आसीत् । इममुदन्तं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy