________________
१४
भूमिका. केनचित्प्रसङ्गेन ( श्रीरङ्गपट्टणं विजयनगरमहाराजप्रशासनपदात्प्रच्युतं महीशूरनगरमहाराजप्रशासनपदमगमत् तदाऽऽरभ्य ) महीशूरराज्ये सर्वाधिकारिपदे सेनापतिपदे ( दलवाइपदे ) च कललेपार्थिववंश्या एव ग्राह्याः इति महीशरपार्थिवानां कललेपार्थिवैः सह समयबन्धः सममत् । तदनुसारेण कललेवंशसमुद्भवा एव पार्थिवाः महीशरदेशाधिपतीनां पार्थिवानां सर्वाधिकारिणः सेनापतयश्चासन् । तेनैवान्वयनियमानुसारेणायं नञ्जराजः इम्मडि कृष्णराजस्य समये सर्वाधिकारिपदे स्थितो निरङ्कुशं राज्यं प्रवर्तयामास ।
अस्य पितामहो दोडुराजः श्रीमति चिक्कदेवराने महीशूरदेशं प्रशासति तेनायं सेनाधिपत्ये ( दलवाइपदे ) नियुक्तस्तस्य नरेन्द्रस्य दक्षिणभुनस्थानीय आसीत् । विज्ञायते चैतत् दोडुराजस्यास्य पुत्रेण वीरराजेन विरचिते वैद्यसंहितासारार्णवे कर्णाटकभाषाप्रबन्धे 'दोड्डेन्द्रनु'इत्यस्मिन् वचने । अयं च वचनार्थः-दोड्डेन्द्रश्चिक्कदेवराजस्य सन्निधौ सेनापतिर्भूत्वा जेजेघाटिप्रभृतीन्माहाराष्ट्रान्महाशूरान्निहत्य तदीयान् गजादीन् समादाय जसवन्तरायस्य नासिकां छित्वा कर्णाटकदेशं विजयलक्ष्म्या सह संयोज्य कर्णाटकचक्रवर्तिनश्चिक्कदेवराजस्य दक्षिणभुनदण्डोऽयमिति कीर्तिमापेति । अयं च नञ्जरानः स्वकृतौ हालास्यमहात्म्ये कर्णाटकभाषामये पितामहमेनमेवमेव वर्णयति । तस्य चिक्कदेवराजस्य राज्यभारसमयः ( 1872-1704 A. D ) त्रयस्त्रिंशद्वर्षपर्यन्तं ।
अस्यैवान्वये सजातः इग्मडिकृष्णरनाख्यः पार्थिवः अष्टादशशतके त्रयस्त्रिंशद्वर्षपर्यन्तं ( 1734-1766 A. D ) महीशूरदेशसाम्राज्यपदमन्वभूत् । तस्यास्य समये नाराजः सर्वाधिकारिपदे भ्राता चास्य सेनापतिपदे ( दलवाईपदे ) आस्ताम् । अयं नञ्जराजः इम्मडिकृष्णराजपार्थिवस्य समये निधिगुणर्षिचन्द्रसमिते क्रिस्ताब्दे-1739 स्वपितृव्येन नञ्जराजेनाधिष्ठितपूर्व सर्वाधिकारिपदमविन्दत । विंशतिसंवत्सरपर्यन्तमयं ( 1739-1759 A. D ) समधिकृतसर्वाधिकारिपदो निरङ्कुशप्रशासनो महाराज इव महाराज एव वा सर्वैः संभाव्यमान आसीत् ।
अयं नञ्जराजः कतिपयसैन्यैर्वृतः कोयंबुतूरप्रान्तस्थं दारापुरं प्रतिरुरोध, तदा तन्नगराधिपेन सहास्य युद्धः समभूत् । युद्धे तं विनित्य नञ्जराजो दारापुरं स्वायत्तीचकार । एतत्समयश्वायम्1746 A. D. विनित्य प्रत्यावृत्तः सोऽयं नञ्जराजः स्वस्य पुत्रीं ज्येष्ठपत्न्यां संजातां राज्ञे (इम्मडि कृष्णराजभूपतये ) विनयश्रिया सह वितीर्योद्वाहयतिस्म ।। ___अथ कदाचित् कतिपयसैन्यैर्वृतो निर्गत्य देवनहल्ली प्रतिरुरोध, तदा सजाते युद्धे देवनहलीनगराधिपं विनित्य देवनहल्ली स्ववशीचकार । एवमस्य नञ्जराजस्य सर्वाधिकारिणो मुनबलेन इम्मडिकृष्णराजस्य कर्नाटकराज्यलक्ष्मीः समवर्द्धत ।
देवनहल्लया वशीकरणसमयेऽस्मिन् प्रज्ञातशौर्यातिशयो हैदरनामा यवनवीरः पञ्चाशद्भिरश्वैः पदातीनां शतद्वयेन च सम्पन्नस्यैकस्य सेनांशस्याधिपत्ये न्ययुज्यत । सह सेनया देवनहल्ल्यामेव समवस्थाप्यत च ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com