________________
भूमिका
इदमलङ्कारशास्त्रं पुरा महीशरदेशे समधिगतसर्वाधिकारिपदस्य निरङ्कुशं प्रवर्तितमहीशरराज्यभरस्य स्वाश्रयभूतस्य नञ्जराजस्य गुणग्रामप्रशंसनमेव परमं प्रयोजनं मन्यमानेन तदीयपण्डितसभालङ्कारभतेन नरसिंहकविना तं प्रीणयितुं व्यरचि ।
अप्यलङ्कारशास्त्रस्य कर्ता कविरयं महान् । अलङ्कारविशेषादीन् प्रसाधयति यद्गुणैः ॥ प्रधानप्रतिपाद्यस्य कललेकुलजन्मनः । चरितं नञ्जराजस्य भूमिकादौ निरूप्यते ॥
__ महीशूरदेशान्तर्गतचामराजनगरपरिसरवर्ती कलले इति ख्यायमानः कश्चन ग्रामः पुरा केषाञ्चिद्राज्ञामन्वयक्रमेण राजधान्यभूत् । अत एव तदन्वयः कललेकुलमित्यभिख्यया ख्यायते । तद्वं. शनातत्वेन नञ्जराजमेनं कविरयं ' सञ्जातं कललेकुलेऽतिविमले येनेन्दुनेवाम्बुधौ ' (१३) 'कल. लेकुलरत्नस्य ' (१४ ) इति तत्र तत्र वर्णयति । अस्य पिता वीरनृपतिरिति भ्राता देवराज इति च · वीरक्ष्मारक्षरत्नोदित ' ( १५९) देवराजानुनो भाति ' (२०२) इति कवेरस्य वचनेनैव विज्ञायते । अपरश्चास्याग्रनः दोड्डे ( अरसिनवरु ) इत्याख्यया युक्त आसीदिति कललेनृपवंशावलीप्रदर्शकेन केनचिल्लेखेन विज्ञायते । अयं च लेखः महीशरदेशान्तर्गते यादवाचले ( मेलकोट इत्यस्मिन् पुण्यक्षेत्रे) रानकीयसंस्कृतपाठशालायामध्यक्षपदमलकुर्वद्भिः पण्डितवरैरस्मन्मित्रभूतैः श्रीमद्भिः एंबेरुमानार् स्वामिभिः चामराजनगरप्रान्तस्थरामसमुद्राख्याग्रहारे कस्यचिद्ग्रामगणनाधिपस्य (शानुभोगस्य ) गृहे स्थितं प्राचीनतालपुस्तकं दृष्ट्वा ततः सारतः समुद्धृत्य मह्यं प्रेषितः । प्राचीनतालपुस्तकतः समुध्दृतोऽयं लेख इतिप्रायः प्रमाणं भवितुमर्हति । अस्मिन्नंशे तैः कृतं साहाय्यमिदं भूमिकालेखनसमये मुहुरनुस्मरामः। अनेन लेखेनास्य नञ्जराजस्य प्राक्त नान्वयपरम्परैवं विज्ञायते ।
पुरा यादवकुलतिलकभूतः कृष्णराजः शालिवाहनशकस्य पञ्चदशशतके १४२१ संवत्सरे सिद्धार्थिनामके माघशुद्धदशम्यां-द्वारवतीनगराद्विनिर्गत्य विजयनगरं प्राप्य कृष्णरायभूपतेः सन्निधौ कतिपयदिनानि स्थित्वा ततः अग्रनेन कान्तराजेन सह कललेनगरं प्राप । तस्मिन्नगरे कृष्णराजस्याग्रजः कान्तराजः (कान्तेवडयरु) उम्मतूरनगराधिपस्य हरिहररायस्य पार्थिवस्यानुमत्या प्रनाभिः कललेराज्येऽभिषिक्तः प्रशशास कललेनगरम् । अस्यान्वये (१) करिकालुमल्लराज इति प्रख्यातः कललेराज्ये अभिषिक्तोऽभूत् , अयं कललेराज्ये अभिषिक्तेषु सप्तमः । (२) तस्य पुत्रः तिम्मराजः (तिम्मराजवडयर् ) (३) अस्य पुत्रः कान्तराजः ( मुप्पिन कान्ते अरसिनवरु) ( ४ ) अस्य पुत्रः दोड्डेराजः ( दलवाई दोड्डे अरसिनवरु ) (५) अस्य पुत्रः वीरराजः (वीरराज अरसिनवरु ) अस्य पुत्राः १ दलवाइ देवराजः ( देवराज अरसिनवरु ) २ दोड्डे रामः (दोड्डे अरसिनवरु) ३ सर्वाधिकारिनञ्जराजः ( नञ्जराज अरसिनवरु ) करिकालुमल्लराजात षष्ठोइयमेव नञ्जराजोऽस्यालङ्कारशास्त्रस्य विषयभूतः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com