Book Title: Najjaraj Yashobhushanam
Author(s): Embar Krishnamacharya
Publisher: Oriental Institute

View full book text
Previous | Next

Page 17
________________ १६ तस्याप्तः कश्चिदाधिकारिकः खण्डेरावनामा श्रीरङ्गपट्टणस्थस्तस्मै न्यवेदयत् । सतु हैदर तद्वृत्तं समुपश्रुत्य ततः प्रस्थाय श्रीरङ्गपट्टणं प्राप्य नञ्जराजं रहसीदं न्येवदयत्राज्यस्याधुना समुपनतोऽयमार्थिकः क्लेशः, ऋणं चेदं महत्, तत्कालोचितेनोपायेन परिहरणीयमेतत् । इदानीं वर्षासमयः, अद्य यन्माहाराष्ट्र सैन्यमस्मद्देशेऽस्ति तत्परिमितम्, तदल्पबलं प्रबलेनास्मत्सैन्येन वयमस्मद्देशाद्विद्रावयामः । कालान्तरेचेत्ते प्रत्यर्थिनः प्रत्यागच्छेयुस्तदा वयं तान्प्रतियुध्यापसारयामः, धनं तु प्रतिश्रुतं नैव देयमिति । तदिदं नञ्जराजः समयसमुचितं विनिश्चित्यानुमेने । अथ तत्सैन्यं यथामन्त्रणं नञ्जराजेन समादिष्टैः सैनिकैर्बलात्पीड्यमानं प्रतियोद्धुमसमर्थ सत्ततो व्यद्रवत् । ततः कतिपयमासान्यावन्महाराष्ट्राणां पीडा नैवासीत् । भूमिका. अथ ग्रहबाणर्षिभूसंमिते क्रिस्ताब्दे ( 1759 A D ) पुनर्माहाराष्ट्राश्चन्नपट्टणं परितः परिवृत्य प्ररुरुधुः । तदा प्रधानसेनापतिपदे नियुक्तो हैदर् तान् माहाराष्ट्रान् प्रत्ययुध्यत । त्रीन् मासान्यावत् युद्धो महानभूत् । अथ विजित्य तान् तैः सह समयबन्धमेवमकरोत् । यद्यपि प्राक् - प्रतिश्रुतं द्वात्रिंशल्लक्षं दीयेत समये । महाराष्ट्रैस्तु सैनिकैरधुनैव महीशूरराज्यसीमानं परित्यज्यान्यत्र गन्तव्यमिति । एवं लब्धविजयं समागतमेनं सेनानायकं हैदराख्यं महाराजः इम्मडि कृष्णराजभूपतिर्महत्यां राजसभायां फतेह हैदरबहादूर इत्यभिख्ययाऽभ्यनन्दत् । नञ्जराजोऽपि तस्यां सभायां तं प्रत्युत्थायाभ्यनन्दत् । 1 अथाल्पेनैव कालेन यथानियतं मासिकवेतनालाभेन सैनिकानां सर्वेषां महानाक्रोशः समुदभूत् तेषामेकत्र सङ्घीभूतानां महान् संक्षोभः समभूत्, येन राज्यस्यैव भयमशाङ्कयमानमभूत् । तदा तेभ्यो वेतनावशेषं दातुं प्रक्षीणकोशतयाऽसमर्थो नञ्जरानो व्याकुलो बभूव । तदा हैदर् भयादस्माद्राज्यं संरक्षितुं दलवाइ देवराजस्य सान्निध्यमाकांक्षमाणः सत्यमङ्गलग्रामे वसन्तं तं - 'पुनः श्रीरङ्गपट्टणे सन्निधाय स्वपदमधिकृत्य संक्षोभोऽयं प्रशमयितव्य' इति विनयपूर्वकं न्यवेदयत्। सोऽपि नञ्जराजप्रहित क्षमाम्यर्थन वचनेन प्राक्तनं वैमुख्यं हृदयतलादपनीय दलवाइ पदमधिकुर्वन् श्रीरंगपट्टणं समाजगाम । परं दैवयोगेन दशदिवसान्तराल एव स काल वशमवाप । अथ नञ्जराजः खिन्नमानसः सैनिकसंक्षोभं प्रशमयितुं त्वमेव प्रभवसीति हैदराख्यमेव सप्रणयबहुमानं न्ययोजयत् । सोऽपि तदभ्यर्थनावचनं स्वीकृत्य खण्डेरावाख्यस्य साहाय्येन परीक्ष्य सैनिकानामाशयं कथं कथमपि ( राजधनतः स्वधनतश्च ) वेतनावशेषं सर्वं प्रादात् । अथ सैनिकेषु प्राप्य वेतनं प्रशान्तहृदयेषु विहाय श्रीरंगपट्टणं स्वस्व स्थानं गतेषु सएष हैदर परितः स्वसैनिकान् संस्थाप्य ये पुरा वेतनावशेषग्रहणव्याजेन सैन्ये कोलाहलमकारयंस्तान् प्रधानपुरुषान् राज्यद्रोहाचरणेन दूषितान् दण्डयंस्तेषां घनक्षेत्रादिसमृद्धि राज्यायत्तमकरोत् । अथ पुनः कदाचिदलब्ध वेतनावशेषाः सर्वे सैनिकाः समेत्य श्रीरंगपट्टणं, नवराज भवनद्वारे रात्रिंदिवमपेतसकलप्रवृत्तयो व्यतिष्ठन् । तदाऽनधिगततदुपशमनोपायेन महाराजेन Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 330