Book Title: Najjaraj Yashobhushanam
Author(s): Embar Krishnamacharya
Publisher: Oriental Institute

View full book text
Previous | Next

Page 18
________________ भूमिका. ( कृष्णराज भूपेन ) प्रशमनोपायं पृष्टा हदर् न्यवेदयत् - ' यावदयं नञ्जराजः सर्वाधिकारिपदानापैति तावदिदं कथमप्यसमाधेयमेवेति । तदा राज्ञा लक्षत्रयरूप्यवार्षिकायं कतिपयग्रामसमुदायं पदातीनां सहस्रत्रयमश्वानां च सहस्रं तस्मै वितीर्य तं नञ्जराजं निधिबाणर्षिचन्द्रसमिते किस्ताब्दे ( 17 59A. D ) सर्वाधिकारिपदान्न्यवर्तयत् । ततः स हैदर् खण्डेरावेन सह संभूय कथं कथमपि धनं समाहृत्य सैनिकानां वेतनावशेषं वितीर्य राज्यं सैनिकजनक्षोभरहितमकरोत् । १७ स च नञ्जराजः सर्वाधिकारिपदाद्विनिवर्तितोऽपि विंशतिवत्सरं यावन्निरङ्कुशं पार्थिवपदादविशिष्टमुपभुक्तं सर्वाधिकारिपदमनुस्मरस्तद्वासनावासितचेताः सहसा महीशूरनगरं त्यक्तुमसमर्थः सन गरलपुरेश्वरस्य भगवतः सेवां व्याजीकृत्य महीशूरनगर एव चिरं न्यवसत् । अथ तं बलात्ततो निर्गमयन् हैदर् तेनाधिष्ठितं राजभवनं प्रतिरुरोध । प्राक्प्रदत्ते लक्षत्रयवार्षिकाये ग्रामे लक्षद्वयं च प्रतिरुरोध । अथानिच्छताऽपि तेन महीशूरनगरे निवासः परित्यक्तः । महीशूरनगरात्प्रतीच्यां दिशि वर्तमाने कोणनूरनामके ग्रामे न्यवसत् । अथास्य दुहिता राज्ञः पत्न्यपि कालेनाल्पेन परलोकमगात् । I 1 तत आरभ्य (1759 A. D) खण्डेराव् प्रधानपदे न्ययुज्यत । अथ कतिपयमासेषु गतेषु आंग्लेय वशगमार्काडनगरमाहर्तुकामानां फञ्चदेशीयानां साहाय्याय हैदर् महीशूरसैन्यं सर्वमप्रैषीत् । हैदर प्रभोरनुदिनमभिवर्धमानं राज्ये प्राबल्यमिदमसहमान: खण्डेरावस्तमधिकारात्प्रच्यावयितुमयमेव समय इत्यवधृत्य माहाराष्ट्रैः सह सम्मन्त्रणमकरोत् । इदं रहस्यं हैदर् विज्ञाय माहाराष्ट्रसैन्यागमनात्प्रागितो निर्गमनमेव वरमधुनेति विनिश्चित्य स्वयमेकाक्येव रात्रौ श्रीरङ्गपट्टणान्निर्गत्य एकरात्रेणैव बेंगलूरनगरं प्राप्य इतस्ततोधनं समुचितं संपाद्य महाराष्ट्रसेनाधिपं खण्डेरावसाहाय्याय समुद्यतमर्थेन तद्विमुखं विधाय कतिपयसेनासहायं समधिगम्य खण्डेरावेण सह महीशूरसमीपवर्तिगरलपुर ( नञ्जनगड ) समीपे प्रतियुध्य प्राप्तः पराजयं ततो विद्रुतो हरदनहलीनामक ग्रामं प्राप्य विचिंत्य पुनस्तद्विजये उपाय रात्रावेव ततो निर्गत्य प्रातः कोण्णनूरग्रामं प्राप्य नञ्जराजस्य भवनद्वार विनीतवेषः प्राप्य तेनाभ्यनुज्ञातः प्राप्य तत्सन्निधिं स्वस्येमां दुरवस्थां निवेद्य - दीने जनेऽशरणे क्षमां विधाय पूर्वापराधं विस्मृत्य पुनर्भवता मुख्यमन्त्रिपदं स्वीकृत्य राज्यं संरक्ष्यं वयं च संरक्ष्याः इत्यभ्यर्थयत । स च तेनाभ्यर्थितस्तद्वचने कृतप्रत्ययः स्वस्य सेनां तत्साहाय्याय दत्वा ' अहमेवेतः परं पूर्ववत् सर्वाधिकारिपदमधिकरिप्यामि अयमेव हैदर् दलवाइपदे मया गृह्येतेति तत्र तत्र आत्मीयान् सर्वान् लेखेन न्यवेदयत् । एवं प्राप्तसाहाय्योऽप्येष साक्षात् युद्धे पराजयमेवाशङ्कय कांश्चन कपटलेखान् नञ्जराज हस्ताक्षरमुद्राङ्कितान्निर्माय खण्डेरावस्य हस्तं प्रापयत् । तं लेखमवलोक्य स खण्डेरावः स्वस्यैव सेनाः स्वस्य प्रतिकूलाः स्युरिति विनिश्चित्य रात्रावेव श्रीरंगपट्टणादपससार । अथापसृते तस्मिन् विशीर्णास्तत्सेनाः क्रमशो विजित्य श्रीरङ्गपट्टणं पुनः स्वायत्तं चकार । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 330