Book Title: MunisuvratJina Vandanavali
Author(s): Vijayanandsuri Smarak Trust Ahmedabad
Publisher: Vijayanandsuri Smarak Trust Ahmedabad

View full book text
Previous | Next

Page 97
________________ MORE AROO नादस्तवानुयम एष स दुन्दुभीनां, यो रोदसी समभिहन्ति समं समग्रे। तत्राद्भुतं किमथवा तव नाथ ! यत्र, साहायकं गहनयोगविन्दम्भितस्य ॥८॥ ज्ञानाद्वयं जगति रक्तपटा विवतुः, ब्रह्माद्वयं च मुनिजैमिनिरप्यगासीत्। नादाद्वयं च तव दुन्दुभयो वितेनुः, कुर्वन्ति किं विभुबलेन नवा महान्तः ॥ ९॥ मन्ये सुरासुरनरेश्वरखेचरेन्द्र - योगीश्वरानपि तव स्तवनप्रसक्तान् । दृष्ट्वेव दुन्दुभिगणा अपि संस्तुवन्ति, त्वां दूरदुर्गमगिरो निनदापदेशात् ॥१०॥ आहुश्चतुर्विधममी कतिचित्कवीन्द्राः, वाद्यं च पञ्चविधमप्यपरे वदन्ति । गर्जन्ननारतमजनमनाहतोऽपि, त्वद्दुन्दुभिः कतमभेदगतो न जाने ॥११॥ देवाधिदेव ! तव दुन्दुभिनादमुह्यद् - देवाङ्गनानिवहविप्रजढः सुरेन्द्रः। पश्यन्नितस्तत इमाः परितः सहस्र - मक्षणामयं यदि निनाय तदोपयोगम् ॥१२॥ निःस्वाननिस्वनममुं च निशामयन्तः, षड्वैरिवर्गसुभटाः प्रपलायमानाः। आशिश्रियुः किमु सुराचलशैलशृङ्ग - वासेन नन्दनवनं षड़तुच्छलेन ॥१३॥ सर्वेऽप्यमी सुरवराः पशवश्च सेवां, कुर्वन्ति तात ! तव पादसमीपभाजः। दूरे वयं किमिति नादमिषेण तारं, विज्ञापयन्ति सुरदुन्दुभयो भवन्तम् ॥१४॥ ॥मालिनीवृत्तम् ॥ इति यदुकुलरत्नं यत्नमाधाय बुद्धेः, स्तुतिविषयमवापि ख्यापितश्च प्रबोधः। मम च मनसि वासं सर्वकालं विधत्ता-मयमिह परमार्थप्रार्थना श्रेयसी मे ॥१५॥ इति श्रीमुनिसुव्रतस्वामिनो देवदुन्दुभिवर्णनो विंशः स्तवः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130