Book Title: MunisuvratJina Vandanavali
Author(s): Vijayanandsuri Smarak Trust Ahmedabad
Publisher: Vijayanandsuri Smarak Trust Ahmedabad
View full book text ________________
भूमीभुजां त्रिदशभूमिभुजां च कुन्दकोशावदातमहसः ककुभां मुखेषु । खेलन्ति याः सपदि कीर्तिकुरङ्गनेत्रास्तास्ते पदाम्बुरुहभक्तिवधूभुजिष्याः किं कौतुकं नवसुधामधुरैर्यदीश ! सूक्तैस्तवापि परितप्यति कोऽपि पाप्मा । वाताधिकास्तनुभृतो हि घनागमेन विश्वोपकारिपयसापि वहन्ति पीडाम्
तान्यद्भुतान्यहरहः प्रविलोक्य पूर्वं सद्दृष्टयो जिन ! भवन्तु न तत्र चित्रम् । अस्मादृशः खलु कुतूहलधामं योऽयमप्रेक्षिताद्भुतलवोऽपि यथार्थदृष्टिः प्राप्तः कथञ्चिदपि तावदयं तवाध्वा श्रद्धालुतत्त्वमिदमस्ति मनोऽपि सम्यक् । तं किञ्चिदप्यथ पृथुं प्रथय प्रसाद येन क्रियास्वपि भवत्यमलासु वृत्तिः कालाय विश्वमहिताय नमोऽस्तु तस्मै तेभ्यस्त्रिधास्मि विनतः सततं जनेभ्यः । यामैश्चतुर्भिरुपदेशगिरोऽभिवर्षन् यत्रासि यैर्जिन ! कृतो निजनेत्रपात्रम् मार्गान्तरप्रणयवासितचेतसोऽपि स्वर्गौकसां चिरमुपासत एव लक्ष्मीम् । तत्किञ्चिदस्ति मितपुण्यमपास्तपापं स्थानं तु नेतुमलभेष तवैव पन्थाः ताः सम्पदोऽपि विपदः खलु यास्त्वदुक्त - सूक्ताञ्जनामृतदृशां सुखयन्ति चेतः । श्लेष्मज्वरार्त्तवपुषां शिशिराम्बुपान - स्वास्थ्यस्य जीवितविहारपरो विपाकः
Jain Education International
૯૭
For Private & Personal Use Only
॥११॥
॥१२॥
॥१३॥
118811
113411
॥१६॥
॥१७॥
वভ
www.jainelibrary.org
Loading... Page Navigation 1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130