Book Title: MunisuvratJina Vandanavali
Author(s): Vijayanandsuri Smarak Trust Ahmedabad
Publisher: Vijayanandsuri Smarak Trust Ahmedabad

View full book text
Previous | Next

Page 113
________________ eana KUBes MHORD आकाशे ते रुचिरचमरश्रेणयो धर्मचक्रं भास्वत्सिंहासनमनुपमं पादपीठेन युक्तम् । प्रौढच्छत्रत्रयमुरुतरश्रीकइन्द्रध्वजोंऽह्रि न्यासे चामीकरनवपयोजानि दीप्रत्रिवप्री ॥११॥ चातूरूप्यं तरुवरनतिय॑ज्मुखा कण्टकाली वृक्षोऽशोकः समवसृतिभूव्यापकस्तापहर्ता। उच्चै दो ध्वनति गगने सर्वतो दुन्दुभीना मिष्टो वातः सकलशकुना दक्षिणावर्त्तचाराः ॥१२॥ वर्षं गन्धप्रवरपयसामिन्द्रियार्थत्वदौष्ट्यं __ जानूत्सेधः कुसुमनिकरः केशरोमाद्यवृद्धिः। पार्श्वे सेवाऽवहितहृदया देवकोटिर्जघन्या देते विश्वेश्वर ! सुरकृता विंशतिह्येकहीनाः ॥१३॥ पञ्चत्रिंशद्वरतरगुणा वाचि संस्कारवत्त्वौ दात्त्याद्यास्ते मनसि परमः कोऽप्युदासीनभावः। स्वामिन्नष्टोत्तरदशशती बाह्यसल्लक्षणानां सत्त्वादीनां वपुषि तु तथाऽऽनन्त्यमाभ्यन्तराणाम् ॥१८।। दीक्षाज्ञाने हयसितसितयोः पक्षयोः फाल्गुनस्य द्वादश्योस्ते च्यवनमथ च श्रावणे पूर्णिमास्याम् । ज्येष्ठेऽष्टम्यां जनुरिन ! शितौ मुक्तिलाभौ नवम्या मासन्विश्वप्रमदविधयेऽमूनि कल्याणकानि ॥१५॥ आसर्वार्थाज्जिन ! तनुमतामत्र संस्थो व्यपास्यन् । सङ्ख्यातीतानपि च युगपत्संशयानेकवाचा। धर्मं स्मात्थ त्रिभुवनगुरो पर्षदां द्वादशाना मञ्लान्या द्विः प्रतिदिनमहो! विष्टपानुग्रहस्ते ॥१६॥ मध्ये कोरण्टकवरवनं त्वं प्रतिष्ठानतोऽत्रा - ऽऽगत्यैकस्यां सपदि रजनौ योजनानां तु षष्ठिम् । यागे जोहूषितहरिवरं बोधयित्वा स्वमित्रं स्वामिन् ! धर्मेऽनशनविधिनाऽजीगमः स्वर्गलोकम् ।।१७।। Ce 5 छाय Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130