Book Title: MunisuvratJina Vandanavali
Author(s): Vijayanandsuri Smarak Trust Ahmedabad
Publisher: Vijayanandsuri Smarak Trust Ahmedabad
View full book text ________________
Saper
मिथ्यात्वायैर्बहुभवभवाऽभ्यासपुष्टैः प्रमादैः
संसाराऽन्तर्न सुखकणिकाः काश्चनाऽऽपं कदापि । सञ्जायन्ते न खलु निहितैः कोद्रवैः क्षेत्रमध्ये
शालिस्तम्बा रुचिरकणिशश्रेणिसम्पत्तिमन्तः ॥२५।। मोक्षोपायं भगवदुदितं भावतो ये प्रपन्नाः
प्रत्यासन्नीभवति भविनां निर्वृति थ ! तेषाम् । पारे पाथोनिधिगुरुतराछिद्रबोधिस्थमध्या
____ऽऽसीनाः केचिज्जिगमिषुजनाः स्युर्न गन्तुं समर्थाः।।२६।। गाढं बद्धो जिन ! भवभृतां कर्मराशिस्त्वदुक्ता
ऽनुष्ठानस्याऽभ्यसनविधिना द्राग् न दीध्वस्यतेयम् । स्वर्णान्नाना भवति हि न किं वह्नियोगेन सद्यो
लोलीभावस्थितिरपि मलो भूरिकालप्ररूढः ॥२७॥ लब्धे धर्मे तव शिवगति प्रापुरन्तर्मुहूर्त्तात्
क्लेशैर्मुक्ता भविकनिवहाः साम्यपीयूषतुष्टाः। गेहस्याऽन्तर्भवतितिमिराकीर्णवस्तूपलम्भः
किं नो पुंसां विलसति सुखात्सर्वतो दीप्रदीपे ॥२८॥ अन्ये यूथ्याः स्वमतिनिरता वर्षकोटीतपोभिः
कूलिशत्कायाः शिवपदमगुर्न त्वदाज्ञाविहीनाः । किं जात्यन्धा अभिमतपुरप्रापणेऽलं भवेयुः
भ्राम्यन्तोऽपि प्रसभमभितो देव! जवाबलेन ॥२९॥ संसृत्यन्तर्धमिभवमहातापनिर्वापहेतोः
शिश्रायाऽसौ जनसमुदयः शासनं तावकीनम् । नो लीयन्ते किमु पथगतं शाड्वलं पान्थसार्था
नैकेऽशोकाभिधवरतरुं ग्रीष्मभीष्माऽर्कतप्ताः ॥३०॥ त्वत्स्याद्वादेऽखिलनयमये विश्वलब्धप्रतिष्ठे
स्फूर्जत्युच्चैः परमतगणा भान्ति नो लेशतोऽपि। तेजःपुळे प्रसरति दिवा भानवीयेऽथवा किं
द्योतन्तेऽन्तर्धरणिवलयं क्षुद्रखद्योतपोताः ॥३१॥
छय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130