________________
MORE
AROO
नादस्तवानुयम एष स दुन्दुभीनां, यो रोदसी समभिहन्ति समं समग्रे। तत्राद्भुतं किमथवा तव नाथ ! यत्र, साहायकं गहनयोगविन्दम्भितस्य
॥८॥ ज्ञानाद्वयं जगति रक्तपटा विवतुः, ब्रह्माद्वयं च मुनिजैमिनिरप्यगासीत्। नादाद्वयं च तव दुन्दुभयो वितेनुः, कुर्वन्ति किं विभुबलेन नवा महान्तः
॥ ९॥ मन्ये सुरासुरनरेश्वरखेचरेन्द्र - योगीश्वरानपि तव स्तवनप्रसक्तान् । दृष्ट्वेव दुन्दुभिगणा अपि संस्तुवन्ति, त्वां दूरदुर्गमगिरो निनदापदेशात्
॥१०॥ आहुश्चतुर्विधममी कतिचित्कवीन्द्राः, वाद्यं च पञ्चविधमप्यपरे वदन्ति । गर्जन्ननारतमजनमनाहतोऽपि, त्वद्दुन्दुभिः कतमभेदगतो न जाने
॥११॥ देवाधिदेव ! तव दुन्दुभिनादमुह्यद् - देवाङ्गनानिवहविप्रजढः सुरेन्द्रः। पश्यन्नितस्तत इमाः परितः सहस्र - मक्षणामयं यदि निनाय तदोपयोगम्
॥१२॥ निःस्वाननिस्वनममुं च निशामयन्तः, षड्वैरिवर्गसुभटाः प्रपलायमानाः। आशिश्रियुः किमु सुराचलशैलशृङ्ग - वासेन नन्दनवनं षड़तुच्छलेन
॥१३॥ सर्वेऽप्यमी सुरवराः पशवश्च सेवां, कुर्वन्ति तात ! तव पादसमीपभाजः। दूरे वयं किमिति नादमिषेण तारं, विज्ञापयन्ति सुरदुन्दुभयो भवन्तम्
॥१४॥
॥मालिनीवृत्तम् ॥ इति यदुकुलरत्नं यत्नमाधाय बुद्धेः, स्तुतिविषयमवापि ख्यापितश्च प्रबोधः। मम च मनसि वासं सर्वकालं विधत्ता-मयमिह परमार्थप्रार्थना श्रेयसी मे
॥१५॥ इति श्रीमुनिसुव्रतस्वामिनो देवदुन्दुभिवर्णनो विंशः स्तवः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org