Book Title: Lilavai
Author(s): A N Upadhye
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
३२
अथैव विगतं यस्य वर्षाणामष्टकं पुनः । ग्रन्थमालाविकासार्थप्रवृत्तिषु प्रयस्यतः ॥ बाणे-रने-नवेन्द्वब्दे मुंबाईनगरीस्थितः । मुंशीति विरुदख्यातः कन्हैयालालधीसखः॥ प्रवृत्तो भारतीयानां विद्यानां पीठनिर्मितौ । कर्मनिष्ठस्य तस्याभूत् प्रयत्नः सफलोऽचिरात् ॥ विदुषां श्रीमतां योगात् संस्था जाता प्रतिष्ठिता। भारतीय पदोपेत विद्या भवन सज्ञया । आहूतः सहकाराय सुहृदा स मुनिः कृतौ । ततः प्रभृति तत्रापि सहयोग प्रदत्तवान् ॥ तद्भवनेऽन्यदा तस्य सेवाऽधिका ह्यपेक्षिता। स्वीकृता नम्रभावेन साऽप्याचार्यपदाश्रिता ॥ नन्द-निध्य-चन्द्राब्दे वैक्रमे विहिता पुनः । एतद्ग्रन्थावलीस्थैर्यकृत् तेन नव्ययोजना ॥ परामर्शात् ततस्तस्य श्रीसिंघीकुलभास्वता । भाविद्याभवनायेयं ग्रन्थमाला समर्पिता ॥ प्रदत्ता दशसाहस्री पुनस्तस्योपदेशत: । स्वपितृस्मृतिमन्दिरकरणाय सुकीर्तिना ।।। दैवादल्पे गते काले सिंधीवों दिवंगतः । यस्तस्य ज्ञानसवायां साहाय्यमकरोत् महत् ।। पितृकार्यप्रगत्यर्थ यत्नशीलैस्तदात्मजैः । राजेन्द्रसिंहमु यैश्च सत्कृतं तद्वचस्ततः ॥ पुण्यश्लोकपितुर्नाम्ना ग्रन्थागारकृते पुनः । बन्धुज्येष्ठो गुणश्रेष्ठो यर्द्धलक्षं प्रदत्तवान् ॥ ग्रन्थमालाप्रसिद्धयर्थं पितृवत्तस्य कांक्षितम् । श्रीसिंधीबन्धुभिः सर्व तगिराऽनुविधीयते ॥ विद्वजनकृतालादा सच्चिदानन्ददा सदा । चिरं नन्दस्वियं लोके जिनविजयभारती ॥
३४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 500