Book Title: Lilavai
Author(s): A N Upadhye
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
दुर्विलासाद् विधेर्हन्त ! दौर्भाग्याच्चात्मबन्धूनाम् । स्वल्पेनैवाथ कालेन स्वर्गं स सुकृती ययौ ॥ इन्दु--शून्यं नेत्रन्दे मासे आषाढसके । कलिकाताख्यपुर्यां स प्राप्तवान् परमां गतिम् ॥ पितृभक्तैश्च तत्पुत्रैः प्रेयसे पितुरात्मन: । तथैव प्रपितुः स्मृत्यै प्रकाश्यतेऽधुना पुनः ॥
इयं प्रन्थावलिः श्रेष्ठा श्रेष्ठा प्रज्ञावतां प्रथा । भूयाद् भूत्यै सतां सिंघीकुल कीर्तिप्रकाशिका | विद्वज्जनकृताह्लादा सच्चिदानन्ददा सदा । चिरं नन्दविंय लोके श्रीसैंधी ग्रन्थपद्धतिः ॥
*
* *
॥ सिंघीजैन ग्रन्थमाला संपादकप्रशस्तिः ॥
स्वस्ति श्रीमेदपाटाख्यो देशो भारतविश्रुतः । रूपाहेलीति सन्नाम्नी पुरिका तत्र सुस्थिता ॥ सदाचार-विचाराभ्यां प्राचीननृपतेः समः । श्रीमच्चतुरसिंहोऽत्र राठोडान्वयभूमिपः ॥ तत्र श्रीवृद्धिसिंहोऽभूद् राजपुत्रः प्रसिद्धिभाक् । क्षात्रधर्मधनो यश्च परमारकुलाग्रणीः ॥ मुख-भोजमुखा भूपा जाता यस्मिन् महाकुले । किं वर्ण्यते कुलीनत्वं तस्कुलजातजन्मनः ॥ पत्नी राजकुमारी ति तस्याभूद् गुणसंहिता । चातुर्य रूप लावण्य सुवाक्- सौजन्यभूषिता ॥ क्षत्रियाणी प्रभापूर्णा शौर्योद्दीप्तमुखाकृतिम् । यां दृट्रैव जनो मेने राजन्यककुलजा त्वियम् ॥ पुत्र: किसनसिंहाख्यो जातस्तयोरतिप्रियः । रणमल्ल इति चान्यद् यन्नाम जननीकृतम् ॥ श्रीदेवी हंसनामाऽत्र राजपूज्यो यतीश्वरः । ज्योतिर्भैषज्यविद्यानां पारगामी जनप्रियः ॥ आगतो मल्देशात् यो भ्रमन् जनपदान् बहून् । जातः श्रीवृद्धिसिंहस्य प्रीति-श्रद्धास्पदं परम् ॥ तेनाथाप्रतिमप्रेम्णा स तत्सूनुः स्वसन्निधौ । रक्षितः, शिक्षितः सम्यक्, कृतो जैनमतानुगः ॥ दीर्भाग्यात् तच्छशल्ये गुरु-तातौ दिवंगतौ । विमूढः स्वगृहात् सोऽथ यदृच्छया विनिर्गतः ॥
तथा च
भ्रान्त्वा नैकेषु देशेषु सेवित्वा च बहून नरान् । दीक्षितो मुण्डितो भूत्वा जातो जैनमुनिस्ततः ॥ ज्ञातान्यनेकशास्त्राणि नानाधर्ममतानि च । मध्यस्थवृत्तिना तेन तत्वातत्त्वगवेषिणा ॥ अभीता विविध भाषा भारतीया युरोपजाः । अनेका लिपयोऽप्येवं प्रत्न-नूतनकालिकाः ॥ मेन प्रकाशिता नेकै प्रन्था विद्वत्प्रशंसिताः । लिखिता बहवो लेखा ऐतिह्यतथ्यगुम्फिताः ॥
बहुभिः सुविद्वद्भिस्तन्मण्डलैश्च सत्कृतः । जिनविजयनाम्नाऽसौ ख्यातोऽभवद् मनीषिषु ॥ यस्य तां विश्रुतिं ज्ञात्वा श्रीमद्गान्धीमहात्मना । आहूतः सादरं पुण्यपत्तनात् स्वयमन्यदा ॥ पुरे चाहम्मदाबादे राष्ट्रीय शिक्षणालयः । विद्यापीठ इति ख्यातः प्रतिष्ठितो यदाऽभवत् ॥ आचार्यश्वेन तत्रोचैर्नियुक्तः स महात्मना । रस मुनि निधीन्द्रब्दे पुरातत्त्वाख्यमन्दिरे ॥ वषाणामष्टकं यावत् संभूष्य सत् पदं ततः । गत्वा जर्मन राष्ट्रे स तत्संस्कृतिमधीतवान् ॥ व्रत आगत्य सँलो राष्ट्रकार्ये च सक्रियम् । कारावासोऽपि संप्राप्तो येन स्वराज्य पर्वणि ॥ क्रमात् ततो विनिर्मुक्तः स्थितः शान्तिनिकेतने । विश्ववन्द्यकवीन्द्रश्री रवीन्द्रनाथभूषिते ॥ संत्रीपदयुतं जैनज्ञानपीठं तदाश्रितम् । स्थापितं तत्र सिंधी श्री डालचन्दस्य सूनुना ॥ श्रीबहादुरसिंहेन दानवीरेण धीमता । स्मृत्यर्थं निजतातस्य जैनज्ञानप्रसारकम् ॥ प्रतिष्ठितश्च तस्यासौ पदेऽधिष्ठातृसज्ञ के । अध्यापयन् वरान् शिष्यान् ग्रन्थयन् जैनवाङ्मयम् ॥ तस्यैवं प्रेरणां प्राप्य श्री सिंधीकुलकेतुना । स्वपितृश्रेयसे ह्येषा प्रारब्धा ग्रन्थमालिका ॥
Jain Education International
For Private & Personal Use Only
G 2017 2
३६
३७
३८
३९
४०
१
w
५.
६
७
८.
९.
१०
งง
१२
१३.
१४ १५. १६
१७
१८
१९
२०
२१
२२
२३
२४
२५ २६.
www.jainelibrary.org
Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 500