Book Title: Lalitvistarakhya Chaityavandan Sutra Vrutti
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 3
________________ हरिभद्रपूज्यैः पूज्यानां च सत्ताकालादि निर्णीतं पञ्चाशक भूमिकायामिति न भूयः प्रयासः । अत्र स्थापितानां मतान्तराणामवलोकनात् सहृदयाणामन्तःकरणान्यवश्यं तत्रोदितं निर्णयमनुसरिष्यन्ति, सिद्धर्षयश्च सुगतसमयाभ्यासमात्राच्चलचित्ता | अजायन्त न तु तत्परिचयात्, न च ते सूरिचर्याणां साक्षात्परिचयपदवीमाप्तवन्त इत्यपि “यां बुद्धा किल सिद्धसाधुरखिलव्याख्यातृचूडामणि० गुरुतया चक्रे नमस्यामसौ” इति श्री पञ्जिकाद्वितीयपद्यावलोकनात् स्पष्टमवभासिध्यते, यद्यपि स्पष्टो नावबुध्यते हेतुः प्रतिबोधस्य सिद्धर्षीणां सूत्रवादादिविभागशः, अनेकत्र बौद्धस्य तद्विशेषाणां च सामान्येन विशेषतश्च निराकरणोपलब्धेः, यतः समुपलभ्यतेऽत्र पृष्ठे १९ सर्वसत्त्वैवं भाववादिनां २४ तमे सुचारुशिष्याणां ५० तमे इष्टत त्वदर्शनवादिनां च तद्भेदानां प्रणिपातदण्डकान्ते चानेकस्वभाववस्तुसिद्ध्यादौ सामान्येन तस्य निराकरणं, न च ज्ञाय| तेऽनुपलम्भात् श्रीमतामुल्लेखस्य कस्कोऽत्र भागो बोधिस्थिरतापादको ?, बोधस्त्वमुष्या एव वृत्तेरवापानघं स्थैर्यमित्यसंशयमाम्नायते श्रीपञ्जिकापधिकासूत्रधारकल्पैः श्रीमुनिचन्द्रसूरिभिः, स्वयमप्याख्यान्त्येवोपकारकृतिज्ञानप्रवीणाः उपमितौ "अनागतं परिज्ञाय, चैत्यवन्दनसंश्रया । मदर्थं निर्मिता येन, वृत्तिर्ललितविस्तरा ॥ १ ॥" इत्यादेः, तथैव हेयोपादेयवृत्तौ " विषं विनिर्धूय कुवासनामयं व्यचीचरद्यः कृपया मदाशये । नमोऽस्तु तस्मै हरिभद्रसूरये ॥ १ ॥” इति पद्यस्य अवलोकनात्, अस्थैर्यमपि श्रीमतां श्रीमदर्हच्छासनेऽनघे किं क्रियाशैथिल्यावभासनमूलं किं वा पदार्थ७ व्यवस्थित्यश्रद्धामूलं किं वा भावनातानवभानोपलब्धं ?, न च तत्रैकतरमपि निश्चेतुं प्रत्यलताभागुपलभ्यते मानं तथा७ विधं न च कल्पनाशिल्पिनिर्मिता वरत्रा केवला संशयगतद्धरणक्षमा स्यात्, यद्यपि उपमितावनेकशोऽन्यदीयमतानां Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 258