Book Title: Kumarpal Bhupal Charitram Mahakavyam Author(s): Jaysinhsuri, Shantivijay Gani Publisher: Vijaydevsursangh Samtha Mumbai View full book textPage 7
________________ SAKALA नाम्ना स्वसन्ततेः कृष्णगच्छ इति प्रसिद्धिः सञ्जाता, यैश्च मित्रव्ययदुःखाद् व्रतं गृहीत्वा घोरानभिग्रहांश्च लात्वाऽतिदुष्कर तपस्तेपे यतस्तेषां प्रतिवर्ष चतुस्त्रिंशद् (३४)दिनानि पारणवन्त्यभूवन् । ईदृक् तपसो महिना स्वपादप्रक्षालनजलेन व्यालादिविषोद्धरणरूपा अनेकलब्धयस्तेषां समुत्पन्ना ये च श्रीवीरनिर्वाणत एकोनविंशत्यधिकसप्तशततमे(७१९)वर्षेऽमोघोपदेशबलेन नागपुरे नारायणश्रेष्ठितः श्रेष्ठं जिनचैत्यं निर्माप्यान्तिमजिनप्रतिष्ठापनादिशुभकार्य कृतवन्तस्तद्वंशोत्पन्नमहाप्रभावकसूरिसमूहे श्रीविक्रमादेकोत्तरत्रयोदशशततमे ( १३०१ ) वर्षे मरुभूमौ मन्त्राकृष्टैर्जलसमूहै। सङ्घमुज्जीवयितारः श्रीमजयसिंहसूरयोऽभूवन् । ततः परं महाप्रभावकाः श्रीमन्तः प्रसन्नचन्द्रप्रभवो दिद्युतिरे, तदनु महम्मदसाहेलेब्ध. प्रतिष्ठाः श्रीमहेन्द्रसूरयः सञ्जातास्तत्पट्टपूर्वाचलमण्डनकभास्कराः श्रीकुमारपालभूभर्तृचरित्रस्य निर्मातारो द्वितीयाः श्रीमजयसिंहसूरयो जाता, ये च व्याकरणन्यायकाव्यादिरचनायां नैपुण्यधरास्तथा वादिमृगयूथवित्रासनलब्धैकलक्ष्याश्चाभूवन् । __ यदुक्तं प्रस्तुतकुमारपालचरित्रप्रथमादर्शलेखकेन सप्तनयनिगमनिष्ठेन काव्येषु पुत्रीयमाणेन तेषां प्रशिष्येण हम्मीरमहाकाव्यरम्भामञ्जरीनाटिकादिका महाकविना श्रीनयचन्द्रसूरिणा स्वकृतहम्मीरमहाकाव्यस्य चतुर्दशसर्गे (प्रशस्तौ) "जयति जनितपृथ्वीसम्मदः कृष्णगच्छो, विकसितनवजातीगुच्छवत् स्वच्छमूर्तिः।। विविधबुधजनालीभृङ्गसङ्गीतकीर्तिः, कृतवसतिरजन मौलिषु च्छेकिलानाम् ॥ २२॥ (मालिनी) १ कृष्णर्षिगच्छ इत्यपि, “ संवत् १५४२ वर्षे श्रावणे मासि श्रीकृष्णर्षिगच्छे श्रीजयसिंहसूरिशिष्येण नयहंसेनात्मपठनार्थ श्रीपेरोजपुरे (पजाब) हम्मीरमहाकाव्य लिलिखे कल्याणमस्तु भद्रं भूयात् सङ्घस्य ग्रन्थार्ग १५६४” इति हम्मीरमहाकाव्यपुस्तकप्रान्तस्थोल्लेखेन ज्ञायते ॥Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 494