Book Title: Kumarpal Bhupal Charitram Mahakavyam Author(s): Jaysinhsuri, Shantivijay Gani Publisher: Vijaydevsursangh Samtha Mumbai View full book textPage 8
________________ * * कुमारपालच० प्रस्तावना ॥४॥ *USHA तस्मिन् विस्मयवासवेश्मचरितश्रीसूरिचक्रे क्रमा-जज्ञे श्रीजयसिंहसूरिसुगुरुः प्रज्ञालचूडामणिः । षड्भाषाकविचक्रशक्रमखिलप्रामाणिकाग्रेसरं, सारङ्गं सहसा विरङ्गमतनोद यो वादविद्याविधौ ॥२३॥ (शार्दू) श्रीन्यायसारटीका, नव्यं व्याकरणमथ च यः काव्यम् । कृत्वा कुमारनृपतेः,ख्यातस्त्रै विद्यवेदिचक्रीति ॥२४॥ (आर्या) पौत्रोऽप्ययं कविगुरोर्जयसिंहसूरेः, काव्येषु पुत्रतितमा नयचन्द्रसूरिः।। नव्यार्थसार्थघटनापदपङ्क्तियुक्ति-विन्यासरीतिरसभावविधानयतः" ॥ २७ ॥ (वसन्ततिलका) इति अनेन ज्ञायते श्रीजयसिंहसूरिभिः षड्भाषाचक्री सारङ्गपण्डितो वादे विजितः। तथा तैरेव च श्रीन्यायसारटीका निर्ममे, कोऽसौ न्यायसारः? इत्याशङ्कायामाचार्यश्रीभासर्वज्ञप्रणीतो न्यायसारनामको न्यायग्रन्थोऽस्ति यस्मिंश्च प्रन्थे वैशेषिकाभिमते प्रत्यक्षानुमाने हे प्रमाणे तथाऽन्येषामपि नैयायिकादीनामभिमतानि प्रत्यक्षानुमानोपमानशाब्दानि चत्वारि प्रत्यक्षानुमानोपमानशाब्दार्थापत्तिनामानि पञ्च प्रभाकरभट्टमते तथा प्रत्यक्षानुमानोपमानशाब्दार्थापत्त्यनुप-1 लब्धिकानि षड् वेदान्तिनां तथा चैतिह्यचेष्टाभ्यां पूर्वोक्तानि मिलितानीत्यष्टौ पौराणिकानामित्यादिप्रमाणविवाद १येन शार्ङ्गधरपद्धतिनामा साहित्यग्रन्थः कृतः स च डा० पी पीटर्सन्साहिबेन मुद्रितः । शाधिरनामा हम्मीरराजस्य पण्डितो दामोदरसुतो लक्ष्मी धरकृष्णयो ज्येष्ठः । तत्रैव पुस्तके, "तदा तदस्य विभाति सम्भ्रमम्” इति श्लोकः कस्यापीत्युक्तं. वी पुस्तके प्रत्यन्तरे तु गार्ग्यगोत्रसमुत्पन्नमहादेयतनूजस्य शाधिरस्वेत्युकं । तथा च सारङ्गसमुच्चयः स एव ज्योतिःसारसमुच्चयः, तत्र तु "मुकुन्दबुद्धपुत्रेण" आशासिद्धिनिवासिना । सारङ्गपाणिमा प्रोक्तः, श्रीसारशी समुच्चयः" ॥१४॥ पत्रे ११ अस्ति, एवं सति शार्ङ्गधरानयः सज्ञातास्तत्राय हम्मीरपण्डित एव । नयचन्द्रसूरिकृते हम्मीरमहाकाव्ये मुद्रिते प्रस्तावनायां कोऽपि विशेषोऽस्ति ( इति रम्भामञ्जरीनाटिकाप्रस्तावनायां टिप्पनी) U RIPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 494