Book Title: Kumarpal Bhupal Charitram Mahakavyam
Author(s): Jaysinhsuri, Shantivijay Gani
Publisher: Vijaydevsursangh Samtha Mumbai

View full book text
Previous | Next

Page 11
________________ तथा ४ सर्गे ५८-५९-६० - तमाः श्लोकाः, ३५६- ३५७ - ३५८ - ३५९ तमाः, १५३ प्रारभ्य २५२ पर्यन्ताश्च तथा ६ सर्गे १४९ प्रारभ्य २५३ पर्यन्तान् (१०५ ) श्लोकान् त्यक्त्वा तत्स्थाने सम्बन्धमेलनायेव विंशतिः श्लोका अन्ये प्रक्षिप्ताः सन्ति, तथा ७ सर्गे ३२० प्रारभ्य ५२३ पर्यन्ताः ( २०४ ) श्लोका न विद्यन्ते, | तथा ८ सर्गे १३६ प्रारभ्य ३३५ पर्यन्ताः श्लोका न विद्यन्ते तत्स्थाने च सम्बन्धमेलनायेव २५ श्लोका नवीनाः प्रक्षिप्ताः सन्ति, एवमन्यत्रापि बहुषु स्थानेषु शब्दविपर्यासपादविपर्यासश्लोकत्यजनमवलोकितमत्र च लेखामात्रं प्रदर्शितं सर्व तु ग्रन्थावलोकनादेव विज्ञेयं, दघिमाषभोजनतः कियन्तः क्रमयो विविच्यन्ते ? इत्येवं बहुतरं वैपरीत्यं विलोक्य मा भूदस्य विपर्यासस्याग्रतोऽपि प्रसरणमिति, तथा श्रोतॄणां तच्छ्रवणेऽतीवोत्कण्ठां सम्भाव्य मुम्बापुर्या भगवतीसूत्रवाचनानन्तरमेतदेव व्याख्यातुमारब्धं श्रोतृजनप्रेरणया च तस्य शुद्धपाठोलेखद्वारेण पुनर्मुद्रणे चिकीर्षोत्पन्नेति, ग्रन्थस्यास्य विषयादिकं त्वनुक्रमणिकातोऽवसेयम्, अस्य संशोधनाधारं पुस्तकत्रयं समासादितं तत्रैकं तावन् नातिशुद्धं प्रशस्तिरहितं बृहत्पत्तन (बडोदा) स्थाज् | जैनाचार्य श्रीमद्विजयमोहनसूरीणां पुस्तकागारतः, अपरं च शुद्धप्रायं बृहत्पत्तनस्थादेव प्रवर्तक श्रीमत्कान्तिविजयमुनिपुङ्गवानां ग्रन्थागारात् तृतीयं त्वशुद्धिबहुलं “वि० सं० १४९३ वर्षे पौषसु १५ रविदिने लिखितं प्रन्थानं ६३०० " इति लेखान्वितं मुम्बापुर्यामेव मणिलालसूर्यमलश्रेष्ठिनः पार्श्वादिति,

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 494