Book Title: Kumarpal Bhupal Charitram Mahakavyam
Author(s): Jaysinhsuri, Shantivijay Gani
Publisher: Vijaydevsursangh Samtha Mumbai

View full book text
Previous | Next

Page 10
________________ प्रस्तावना कुमारपालच. वकाणामाग्रहेणैतच्चरित्रं सदसि व्याख्यातुमारब्धं तत्र चतुर्थसर्गव्याख्यासमये सम्बन्धत्रुटिआता ततो लिखितपुस्तकगवे. षणायां प्रथममेकं कियत्कालेन द्वितीयं च लब्धमुभाभ्यां सहास्य सम्मेलने केषुचिच्छोकेषु शब्दान्तराणि दृष्टानि यथा १ सर्गे २१ तमे श्लोके चतुर्थपादे मुद्रिते-'कीर्तिव्रज' लिखिते-'संवत्सरं' इत्यादि। केषुचित् पादान्तरं यथा १ सर्गे५१तमे श्लोके- मुद्रिते-'तन्मन्दिरसमीपस्थे । लिखिते-'समया मन्दिरं तस्य' इत्यादि केषुचित् पादान्तरे यथा २ सर्गे २७७-२७८-२९१ तमेषु श्लोकेषु मुद्रिते-तासु च नरकावासाः, प्राणिनां च भयङ्कराः। दुर्गन्धाः प्रसरत्पूति-वसारक्तादिपड्किलाः॥ लिखिते-तासां मध्ये क्रमेणैवा-थ त्रिंशत्पश्चविंशतिः । पञ्चदश दश तिस्रो, लक्षा लक्षा च पञ्चमुक् ॥२७७॥ पश्चान्ये चतुरशीति-लक्षा निश्शेषसङ्ख्यया । दुर्गन्धाः प्रसरत्पूति-वसारक्तादिपङ्किलाः ॥ २७८ ॥ सामुद्रिते-तप्तायःपुत्रिकाभिश्चा-लिजयमानान मुहुर्मुहुः । लिखिते-साक्षादाग्नेयकीलाभिः, पुत्रिकाभिः सहासकृत् ॥ २९१ ॥ केषुचित्पादान्तराणि, यथा ७ सर्गे १४८ तमे श्लोकेमुद्रिते-किं बहूत्या तथाऽऽचर्य, युष्मद्भ्यां निजकर्मसु । यथाऽत्र युवयोः ख्याति-भवेल्लोकोत्तरैर्गुणैः॥ लिखिते-किं बहुक्त्या तथा वत्सौ !, वर्त्तयाथामतःपरम् । पूर्वानतिशयीयाथां, यथा लोकोत्तरैर्गुणैः॥१४८॥ अन्यच्च केषुचित्स्थलेषु श्लोका एव त्यक्ता दृष्टा यथा२ सर्गे २६ तमः श्लोकः, २७९ तमश्च । तथा ३९-४० तमौ श्लोको, ६१२-६१३ तमौ च । TRENCESSORROTOCOCOM

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 494