Book Title: Kshir Tarangini
Author(s): Yudhishthir Mimansak
Publisher: Ramlal Kapur Trust

Previous | Next

Page 12
________________ (७) क्तिन्प्रत्ययस्य च विधाता पाणिनिरेव, अतः प्रकृतिपाठे वृधेरुपदेष्टाऽपि स एव भवितुमर्हति नान्यः । एवमुत्तरेष्वप्युद्धरणेषु विज्ञेयम् । सप्तमोद्धरणस्य व्याख्यायां शिवरामसरस्वत्याहरिस्मा इति श्रस्मै साधुशब्दबुभुत्सवे पाणिनिना धातुपाठे मृष शुद्धौ इत्युपदिष्ट इति । - उद्योतस्य छायाव्याख्याकारो वैद्यनाथपायगुण्डोऽप्याह - पाणिनिना प्रत्ययविशेषानाश्रयेण मृजूष् शुद्धौ इति धातुपाठ उपदिष्टः । १० - बहवो हि वैयाकरणाः सूत्रपाठमिव धातुपाठमपि पाणिनीयं मन्यमानास्तत्रस्थप्रयोगसामर्थ्यादनेकेषां प्रयोगाणां साधुत्वमातिष्ठन्ते । तथाहि क - कथमुद्यमोपरमौ ? अड उद्यमने ( क्षीरत० १ । २४६ ) यम उपरमे (क्षीरत० १।७ १ ) इति निपातनादनुगन्तव्यौ । काशिका ७ । ३।३४।। -- ख- धू विधूनने (क्षीरत० ६।६८ ), तृप प्रीणने (क्षीरत० पृ० ३१६ टि० ५ ) इति निपातनादेतयोर्नु ग् भविष्यति । न्यास भाग २ पृष्ठ ७६२ ॥ ग - 'व्याजीकरणे' लिङ्गाद् घञि कुत्वाभावः:- व्याजः । क्षीरत० ६।१६।। घ - शुभ शुम्भ शोभार्थी (क्षीरत० ६ । ३४) श्रत एव निपातनाच्शोभा साधुः । क्षीरतरङ्गिणी ६ |३४|| ङ - शोभेति निपातनात् इति वामनः काव्यालङ्कार ( ५।२।४१ ) | एतैः प्रमाणभूतानामाचार्याणां वचनैर्धातुपाठस्य पाणिनिप्रवक्तृत्वं सर्वथा विस्पष्टम्, नात्र कश्चिच्छंकालवोऽप्युदेतुं समर्थः । धात्वर्थनिर्देशः पाणिनीयोऽपाणिनीयो वा ये खलु धातुपाठं पाणिनीयमुररीकुर्वन्ति, तेऽपि धात्वर्थानां पाणिनीयत्वापाणिनीयत्वयोविप्रवदन्ते । तेषां पाणिनीयत्वापाणिनीयत्वयोनि प्रमाणानि तान्यधस्तान्निर्दिश्यन्ते । तथाहि

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 444