Book Title: Kshir Tarangini
Author(s): Yudhishthir Mimansak
Publisher: Ramlal Kapur Trust

Previous | Next

Page 16
________________ (११) ५ - धातुवृत्तिकारा बहुत्र घातुसूत्राणां संहितापाउस्य प्रामायमाश्रित्य सूत्रविच्छेदे विप्रवदन्ते । यथा क - तपऐश्वर्येवावृतुवरणे ( क्षीरत० ४।४८, ४६ ) इति दैवादिकपाठे मध्ये पठ्यमानं वा पदं पूर्वसूत्रस्यावयवः, उतोत्तरस्य । पूर्वावयवे भौवादिकस्य तप सन्तापे ( क्षीरत० १ । ७१२ ) इत्यस्यैश्वर्ये वा दिवादित्वमाचष्ट इत्येके मन्यन्ते । उत्तरावयवेऽपि वा इति पृथक् पदं सद् भौवादिकस्य वृतु धातो: ( क्षीरत० १।५०४ ) वरणे वा दिवादित्वं ब्रूते इत्यपरे संगिरन्ते, धात्वेकदेशो वावृतु इति धातुरित्यन्य प्रातिष्ठन्ते । ख - - पतगतौ वापशअनुपसर्गात् ( क्षीरत० १०।२४६, २५० ) इत्यत्रापि वा पदं पूर्वसूत्रावयवः, उतोत्तरस्येति विवाद: । केचन पूर्वसूत्रावयवं मन्यमानाः पत-धातोर्गतौ वा णिजुत्पद्यत इत्याहुः । त्रपर उत्तरसूत्रावयवं मन्यमाना अपि वा पदं स्वतन्त्रमभ्युपगम्य पशोऽनुपसर्गाद् वाऽदन्तत्वमाहुः, अन्ये तु वा शब्दं धात्ववयवं ब्रुवाणा वापश इति धातु स्वीचक्रुः । ग- - तत्रिकुटुम्बधारणे ( १० | १२८ ) अत्र व्याख्यातारो विवदन्ते 'तत्रि कुटुम्बधारणे' उत 'तत्रि कुटुम्ब धारणे इति द्वौ धातू । अयं सर्वोऽपि विवादो धात्वर्थनिर्देशानां पाणिनीयत्वमुररीकृत्यैवोपपद्यते । यदि हि नामैतादृशेषु स्थलेषु भवेधस्पर्ध-वत् केवलो धातुनिर्देश एव पाणिनीयोऽभविष्यत् तर्हि तपवावृतु पतवापश इत्येवं संहितापाठे वा शब्दे पठ्यमानेऽपि वावृतु धातोः वापश धातोश्च स्वरूपे सन्देह एव नोत्पद्यते, वा-रहितपाठे तु नतराम् । यदि हि तपवावृतु पतवापश, इत्यर्थविरहिते पाठे सन्देहावसरः स्यादपि तदा तपवावृतु यद्वा तपवा-वृतु, एवं पत-वापश यद्वा पतवा-पश इत्येवं सन्देहः स्यात्, न तु यथा वृत्तिकारा प्राहुस्तथा । सायणः सार्थपाठं पाणिनीयं मन्यमानः तपऐश्वर्ये वावृतुवरणे १. ग्रत्र क्षीरतरङ्गिणी ( ४/४८, ४९ ), धातुप्रदीप: ( पृष्ठ 2३ ), पुरुष - कार : ( पृष्ठ ९३ ) ; धातुवृत्तिः (पृष्ठ २९३ ) सिद्धान्तकौमुदी च द्रष्टव्याः । २. पत्र क्षीरतरङ्गिणी १०।२४६, २५० द्रष्टव्या ।

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 444