Book Title: Kshir Tarangini
Author(s): Yudhishthir Mimansak
Publisher: Ramlal Kapur Trust

Previous | Next

Page 15
________________ ईडिः स्तुतिचोदनायाच्या दृष्टः, प्रेरणे चापि वर्तते-अग्निर्वा इतो वृष्टिमी? मरुतोऽमुतश्च्यावयन्ति इति । करोतिरभूतप्रादुर्भावे दृष्टः, निर्मलीकरणे चापि वर्तते - पृष्ठं कुरु, पादौ कुरु, उन्मृदानेति गम्यते। महा० १॥३॥१॥ अत्र महाभाष्यकृता केषाञ्चिदर्थानां दृष्टत्वमुक्तम्, केषाञ्च्च्चि वर्तनत्वम् । तत्र दृष्ट:-वर्तते-पदयोरैकार्थ्यं नेति'तु वाक्यविन्यासादेव स्पष्टम् । तेन योऽर्थो दृष्ट इत्युक्तस्तस्यायमेवाभिप्रायो यत् से धातुपाठे पठितो दश्यत इति । यस्त्वर्थो वर्तते-क्रियया निर्दिष्टः, स खलु धातुपाठेऽपठिनोऽपि लोकेवेदयोरुपलभ्यत इति । ४-बहवो हि वैयाकरणा धातुपाठे पठितानामर्थनिर्देशानां सूत्रवत् । प्रामाण्यं स्वीकुर्वन्ति । तद्यथा-. . क-कथमुद्यमोपरमो ? अड उद्यमे यम उपरमे इति निपातनादनुगन्तव्यौ । काशिका ७।३।१४।। ____ख-धू विधूनने तृप प्रीणने इति निपातनादेतयोर्नु ग् भविष्यति । न्यास भाग २ पृष्ठ ७६२॥ ग--शुभ शुम्भ शोभार्थे । अत एव निपातनात् शोभा साधुः । क्षीरत० ६॥३४॥ घ-शोभेति निपातनात् इति काव्यालङ्कारे (५।२।४१) वामनोऽपि। यदि हि नाम धात्वर्थनिर्देशः पाणिनीयो नाभविष्यत् तहि वैयाकरणानां तत्र सूत्रवत् प्रामाण्यबुद्धिरपि नोदैष्यत् । दृश्यते च यतस्तत्र सूत्रवत् प्रामाण्यबुद्धिस्तस्मात् स्पष्टमेव यद् धात्वर्थनिर्देशान् प्रमाणीकुर्वन्तो वैयाकरणास्तानार्थनिर्देशान् पाणिनीयानेव मन्यन्ते । १. इह बीजसन्तानस्य प्रकिरणशब्देन, करणस्याभूतप्रादुर्भावशब्देनार्थतो निर्देशो द्रष्टव्यः । ईडे: चोदनायाच्याऽयौं धातुपाठे पठितौ नोपलभ्येते । तत्र कारणमुपरिष्टाद् वक्ष्यते। २. यथा हि न्यासकारो धातुपाठमपाणिनीयं मन्यमानोऽप्येकत्र तस्य पाणिनीयत्वमभ्युपगत वान् (तत्प्रमाणं पूर्व निर्दिष्टम्, पृष्ठ २-३) । तथैवेह धात्वर्थनिर्देशानामपि सूत्रवत् प्रामाण्यं स्वीचकार (द्र० ख-वचनम्) ।

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 444