Book Title: Kshir Tarangini
Author(s): Yudhishthir Mimansak
Publisher: Ramlal Kapur Trust

Previous | Next

Page 14
________________ (६) द्वितीयवाक्यं व्याख्ययन् नागेश आह-पचादीनामर्थरहितानामेव पाठात् । ४-भट्टोजिदीक्षितोऽपि भूवादिसूत्रकौस्तुभे ( १।३।१) ऽर्थरहितानामेव धातूनां पाठं स्वीचकार । तथाहि न च या प्रापणे इत्याद्यर्थनिर्देशो नियामकः,तस्यापाणिनीयत्वात् । भीमसेनादयो ह्यर्थ निर्दिदिक्षुरिति स्मर्यते । पाणिनिस्तु भ्वेध इत्याद्य पाठीत् इति भाष्यकैयटयोः स्पष्टम् । ५--स एव पुनराहतितिक्षाग्रहणं ज्ञापकं भीमसेनादिकृतोऽर्थनिर्देश उदाहरणमात्रम् । शब्दकौस्तुभ १।२।२०॥ एभिः प्रमाणैरिदं विस्पष्टं यत्पाणिनीयधातुपाठे योऽर्थनिर्देशः सोऽपाणिनीयः । पाणिनिस्तु भ्वेधस्पर्ध इत्येवमर्थविरहितानेव धातून पपाठेति । पाणिनीयत्वप्रतिपादकानि प्रमाणानि -तत्र यैः प्रमाणैर्धात्वर्थनिर्देशानां पाणिनीयत्वं सिध्यति, तान्युच्यन्ते - १–महाभाष्ये केचन धातवोऽर्थनिर्देशपुरःसरमुध्रियन्ते। तेन ज्ञायते महाभाष्यात् प्राक् पाणिनीयधातुपाठेऽर्थनिर्देशो वर्तमान आसीत् । . २-चुटू-सूत्रव्याख्याने महाभाष्यकारः पठति अथवा प्राचार्यप्रवृत्तिापयति-नैवं जातीयकानामि विधिभवति इति यदयमिरितः कांश्चिन्नुमनुषक्तान् पठित-उबुन्दिर निशामने, स्कन्दिर् गतिशोषणयोः, इति । महा० १॥३७॥ पाणिनिना धातुपाठस्य प्रवचनं कृतमित्यनेन वचनेन ज्ञापितं पुरस्तात् । अतो येन खल्वाचार्येण उबुन्दिर् स्कन्दिर् धातू इरितौ नुमनुषक्तौ च पठितौ, तेनैव तयोरत्र निर्दिष्टौ निशामने गतिशोषणे चार्था अपि पठिता इति विस्पष्टम् । ३--- भूवादिसूत्रेऽप्याह भाष्यकृत्वपिः प्रकिरणे दृष्टः, छेदने चापि वर्तते -केशश्मश्रु वपतीति ।

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 444