________________
(६)
द्वितीयवाक्यं व्याख्ययन् नागेश आह-पचादीनामर्थरहितानामेव पाठात् ।
४-भट्टोजिदीक्षितोऽपि भूवादिसूत्रकौस्तुभे ( १।३।१) ऽर्थरहितानामेव धातूनां पाठं स्वीचकार । तथाहि
न च या प्रापणे इत्याद्यर्थनिर्देशो नियामकः,तस्यापाणिनीयत्वात् । भीमसेनादयो ह्यर्थ निर्दिदिक्षुरिति स्मर्यते । पाणिनिस्तु भ्वेध इत्याद्य पाठीत् इति भाष्यकैयटयोः स्पष्टम् ।
५--स एव पुनराहतितिक्षाग्रहणं ज्ञापकं भीमसेनादिकृतोऽर्थनिर्देश उदाहरणमात्रम् । शब्दकौस्तुभ १।२।२०॥
एभिः प्रमाणैरिदं विस्पष्टं यत्पाणिनीयधातुपाठे योऽर्थनिर्देशः सोऽपाणिनीयः । पाणिनिस्तु भ्वेधस्पर्ध इत्येवमर्थविरहितानेव धातून पपाठेति ।
पाणिनीयत्वप्रतिपादकानि प्रमाणानि -तत्र यैः प्रमाणैर्धात्वर्थनिर्देशानां पाणिनीयत्वं सिध्यति, तान्युच्यन्ते -
१–महाभाष्ये केचन धातवोऽर्थनिर्देशपुरःसरमुध्रियन्ते। तेन ज्ञायते महाभाष्यात् प्राक् पाणिनीयधातुपाठेऽर्थनिर्देशो वर्तमान
आसीत् । . २-चुटू-सूत्रव्याख्याने महाभाष्यकारः पठति
अथवा प्राचार्यप्रवृत्तिापयति-नैवं जातीयकानामि विधिभवति इति यदयमिरितः कांश्चिन्नुमनुषक्तान् पठित-उबुन्दिर निशामने, स्कन्दिर् गतिशोषणयोः, इति । महा० १॥३७॥
पाणिनिना धातुपाठस्य प्रवचनं कृतमित्यनेन वचनेन ज्ञापितं पुरस्तात् । अतो येन खल्वाचार्येण उबुन्दिर् स्कन्दिर् धातू इरितौ नुमनुषक्तौ च पठितौ, तेनैव तयोरत्र निर्दिष्टौ निशामने गतिशोषणे चार्था अपि पठिता इति विस्पष्टम् ।
३--- भूवादिसूत्रेऽप्याह भाष्यकृत्वपिः प्रकिरणे दृष्टः, छेदने चापि वर्तते -केशश्मश्रु वपतीति ।