________________
(८) अपाणिनीयत्वप्रतिपादकानि प्रमाणानि-यैः प्रमाणैर्धात्वर्थनिर्देशानामपाणिनीयत्वं प्रतीयते, तान्युच्यन्ते
१-परिमाणग्रहणं च कर्तव्यम् । इयानवनिर्धातुसंज्ञो भवति इति वक्तव्यम् । कुतो ह्य तद् भूशब्दो धातुसंज्ञो भवति, न पुनर्वेधशब्दः । महा० १।३।१।।
यदि हि नाम भू सत्तायाम् एध वृद्धौ इत्येवं सार्थको धातूनां पाठो भवेत्, तर्हि भ्वेधसमुदायस्य धातुसंज्ञायाः शङ्कव नोदेति, भू शब्दानन्तरं सत्तायाम् पदस्य पाठात् । अत एव एतद्भाष्यव्याख्याने कैयट प्राह - ___ न चार्थपाठः परिच्छेदकः, तस्यापाणिनीयत्वात्, अभियुक्तरुपलक्षणतयोक्तत्वाद् इति । __अत्रैव अभियुक्तपदव्याख्याने नागेशः-भीमसेनेनेत्यतिह्यम् इत्युक्तम् ।
२-पाठेन धातुसंज्ञायां समानशब्दानां प्रतिषेधो वक्तव्यः । या इति धातुः, या इत्यावन्तः। वा इति धातुः, वा इति निपातः । न इति धातुः, नु इति प्रत्ययः। दिव इति धातुः, दिव इति प्रातिपदिकम् । . महा० १।३।१।।
यदि हि नाम धातुपाठेषु या प्रापणे, वा गतिगन्धनयोः इत्येवं सार्थो धातूपदेशः स्यात्, तर्हि शङ्कवेयं नोदियात् । यः खलु प्रापणेऽर्थे या-शब्दः स धातुसंज्ञो भविष्यति । पाबन्तस्तु नैव प्रापणार्थकः, कुतस्तस्य धातुसंज्ञायाः प्राप्तिः, यस्य प्रतिषेधः कर्तव्यो भवेत् । एवं वा नु-दिव आदिष्वप्युह्यम्।
३ - (क) म ह्या प्रादिश्यन्ते क्रियावचनता च गम्यते । महा० ३।११८, ११, १६॥
(ख) कः खल्वपि पचादीनां क्रियावचनत्वे यत्नं करोति । महा० ३।१।१६।
(ग) को हि धातुप्रातिपदिकनिपातानामर्थानादेष्ट समर्थः । महा० २।१।१॥