________________
(७)
क्तिन्प्रत्ययस्य च विधाता पाणिनिरेव, अतः प्रकृतिपाठे वृधेरुपदेष्टाऽपि स एव भवितुमर्हति नान्यः । एवमुत्तरेष्वप्युद्धरणेषु विज्ञेयम् । सप्तमोद्धरणस्य व्याख्यायां शिवरामसरस्वत्याहरिस्मा इति श्रस्मै साधुशब्दबुभुत्सवे पाणिनिना धातुपाठे मृष शुद्धौ इत्युपदिष्ट इति ।
-
उद्योतस्य छायाव्याख्याकारो वैद्यनाथपायगुण्डोऽप्याह - पाणिनिना प्रत्ययविशेषानाश्रयेण मृजूष् शुद्धौ इति धातुपाठ उपदिष्टः ।
१० - बहवो हि वैयाकरणाः सूत्रपाठमिव धातुपाठमपि पाणिनीयं मन्यमानास्तत्रस्थप्रयोगसामर्थ्यादनेकेषां प्रयोगाणां साधुत्वमातिष्ठन्ते ।
तथाहि
क - कथमुद्यमोपरमौ ? अड उद्यमने ( क्षीरत० १ । २४६ ) यम उपरमे (क्षीरत० १।७ १ ) इति निपातनादनुगन्तव्यौ । काशिका ७ । ३।३४।।
--
ख- धू विधूनने (क्षीरत० ६।६८ ), तृप प्रीणने (क्षीरत० पृ० ३१६ टि० ५ ) इति निपातनादेतयोर्नु ग् भविष्यति । न्यास भाग २ पृष्ठ ७६२ ॥
ग - 'व्याजीकरणे' लिङ्गाद् घञि कुत्वाभावः:- व्याजः । क्षीरत०
६।१६।।
घ -
शुभ शुम्भ शोभार्थी (क्षीरत० ६ । ३४) श्रत एव निपातनाच्शोभा साधुः । क्षीरतरङ्गिणी ६ |३४||
ङ - शोभेति निपातनात् इति वामनः काव्यालङ्कार ( ५।२।४१ ) | एतैः प्रमाणभूतानामाचार्याणां वचनैर्धातुपाठस्य पाणिनिप्रवक्तृत्वं सर्वथा विस्पष्टम्, नात्र कश्चिच्छंकालवोऽप्युदेतुं समर्थः ।
धात्वर्थनिर्देशः पाणिनीयोऽपाणिनीयो वा
ये खलु धातुपाठं पाणिनीयमुररीकुर्वन्ति, तेऽपि धात्वर्थानां पाणिनीयत्वापाणिनीयत्वयोविप्रवदन्ते । तेषां पाणिनीयत्वापाणिनीयत्वयोनि प्रमाणानि तान्यधस्तान्निर्दिश्यन्ते । तथाहि