________________
(६)
विकारप्रत्ययादीनां पाठको यदि पाणिनिस्तर्हि नूनं धातूनां प्रवक्ताऽपि स एव ।
३ - एवं तहि सिद्धे सति यदादिग्रहणं करोति तज्ज्ञापयत्याचार्यः - श्रस्ति च पाठो बाह्यश्च सूत्रात् । महा० १।३।१।।
अत्र स्पष्टमेव धातुपाठस्य सूत्रवत् पाणिनीयत्वमुपपादितम् । अत्र ह्याचार्यपदेन पाणिनिरेवाभिप्रेतः, यतो हि तस्यैव भूवादयोः धातवः ( ० १।३।१ ) इति सूत्रनिर्दिष्टाऽऽदिग्रहणेनैतज्ज्ञापनमुक्तम् ।
४- श्रथवाऽऽचार्यप्रवृत्तिर्ज्ञापयति नैवं जातीयकानामिदविधिर्भवति । यदयमिरितः कांश्चिन्नुमनुषक्तान् पठति -- उबुन्दिर् निशामने, स्कन्दिर् गतिशोषणयोः । महा० १|३|७||
अस्मिन्नुद्धरणे य एव खल्वाचार्यो ज्ञापयति- क्रियायाः कर्ता, स एव पठति - क्रियाया प्रपि, इत्यनया वाक्यरचनया विस्पष्टम् । तथा च सति मनुषक्तानाम् उबुन्दिर् प्रादिधातूनां पाठकः पाणिनिरेव ।
५ - तथाजातीयकाः खल्वाचार्येण स्वरितत्रितः पठिता य उभययेषां कर्त्रभिप्रायं चाकर्त्रभिप्रायं च क्रियाफलमस्ति । महा० १।
वन्तः,
३॥७२॥
भाष्यकारो हि प्राचार्यपदेन पाणिनि वा स्मरति कात्यायनं वा । उक्तवाक्ये कात्यायनस्य निर्देशो न कथपपि संभाव्यतेऽतो व्यतिरेकेण पाणिनिरेवान्राचार्योऽभिप्रेतः । तथा सति पाणिनिनैव स्वरितत्रितो धातवः पठिता इति व्यक्तम् । स च पाठो धातुगण एव सम्भवति,
नान्यत्र ।
६ - कृतमनयोः साधुत्वम् । कथम् ? वृधिरस्मायविशेषेणोपदिष्टः प्रकृतिपाठे, तस्मात् क्तिन्प्रत्ययः || महा० १|१|१|
७ - मृजिरस्मायविशेषेणोपदिष्टः । महा० १ । १ । १ । । ८ - घरतिर स्मायविशेषेणोपदिष्टः । महा० ७ १६७ ६ - रशिरस्मायविशेषेणोपदिष्टः । महा० ६ । १०६७॥
अत्र हि षष्ट उद्धरणे भाष्यकृता प्रकृतिपाठस्य साक्षादुल्लेखः कृतः। तत्र च वृधेरुपदेष्टा स एव, येन क्तिन्प्रत्ययस्य विधानमुक्तम् ।