________________
(५)
भ्रान्तेरपरं कारणम् - योऽयं खलु पाणिनीयो धातुपाठः सम्प्रत्यु - पलभ्यते, तस्याऽद्य यावद् बहुकृत्वः परिष्करणात् तत्पाठे महत्यव्यवस्थाऽभूत् (एतद्विषय उपरिष्टाद्वक्ष्यते ) । अनया पाठाव्यवस्थया - इपि बहुत्र विरोधस्य संभवः ।
धातुपाठस्य पाणिनीयत्वे प्रमाणानि
भगवता पाणिनिना शब्दानुशासनस्य प्रवचनं कुर्वता भूवादयो धातवः ( ० १ ३ | १ ) इति सूत्रविज्ञापितस्तत्खिलरूपो' धातुपाठोऽपि प्रोक्त इत्यत्र सन्ति बहूनि प्रमाणानि । तेषु कानिचिदुच्यन्ते
१ – पुषादिद्युताद्य्लृदितः परस्मैपदेषु ( श्र० ३ | १ | ५५ ), किरश्च पञ्चभ्यः (अ० ७।२।७५), शमामष्टानां दीर्घः श्यनि (प्र० ७ । ३ । ७४) इत्यादिषु बहुषु सूत्रेषु धातुपाठान्तर्गताया धात्वनुपूर्व्याः स्मरणात्, धातुपाठस्थैर्विविधैरनुबन्धैः सूत्रेषु कार्यविधानाच्चानुमीयते यत् पाणिनिना सूत्रपाठ - प्रवचनात् प्रागेव प्रातिपदिकगणवद् धातुपाठस्यापि प्रवचनं व्यधायि । यतो नहि तत्प्रवचनाभावे कथमपि सूत्रपाठस्य प्रवचनं संभवति ।
महाभाष्यकारस्तु भगवान् पतञ्जलिरिमं धातुपाठं पाणिनीयमेव स्वीकरोति । तथाहि
२ श्रागमाः शुद्धाः पठ्यन्ते " · विकाराः 'प्रत्ययाः धातवोऽपि 'शुद्धाः पठ्यन्ते | महा० १|१| प्रा० १, अन्ते । अत्र सर्वत्र 'पठ्यन्ते' क्रियायाः कर्ता समान एव । तेन श्रागम
१. सूत्रपाठातिरिक्ता धातुपाठगणपाठोणादिलिङ्गानुशासन ग्रन्थाः खिलशब्देनोच्यन्ते । द्र० काशिका १|२| ३; महाभाष्यदीपिका भर्तृहरिकृता, पृष्ठ १४६ ।
२. प्रनुदात्तङित आत्मनेपदम् ( ० १।३।१२) स्वरितत्रितः कर्त्रभिप्राये क्रियाफले ( ० १।३।७२ ) वित: वित्र: ( प्र ० ३।३।८८ ) ट्वितोऽथुच् (प्र० ३।३।८९) इति सूत्रभाष्य मनुसन्धेयम् ।
३. सूत्रपाठात् पूर्वं गणपाठस्य प्रवचनमभूदित्यत्र पूर्वपरावर' ( ० १|१| ३४) इति सूत्रभाष्यमनुसन्धेयम् ।