________________
(४)
निर्देशा अप्यष्टाध्याय्याः पाणिनेः कृतित्वमपाकृत्य तत्प्रवक्तृत्वमेव प्रतिपादययन्ति ।
प्रोक्तकृतयोर्भेदः-वैयाकरणैः सर्वमपि संस्कृतवाङ्मयं दृष्ट-प्रोक्तउपज्ञात-कृत-व्याख्यानभेदैः पञ्चधा विभज्यते' । अत एव ते प्रोक्तकृतयोः तेन प्रोक्तम् (अ० ४।३।१०१), कृते ग्रन्थे (अ० ४।३।११६) इति भेदेन प्रत्ययविधानमूचः । कृतेष ग्रन्थेषु सर्वा अपि तदीयो वर्णानुपूर्वी तद्ग्रन्थकारस्यैव भवति। प्रोक्तग्रन्थेषु तु इतोऽन्यथा परिस्थितिः । प्रवक्तारस्तु खलु पूर्वतो विद्यमानस्य शास्त्रस्य परिष्कारका एव भवन्ति, न तु तस्याद्यन्तवर्णानुपूर्व्या रचयितारः । प्रोक्तग्रन्थेषु तत्तत्प्रवक्तृणां स्वोपज्ञांशो वर्णानुपूर्व्यशश्च स्वल्पमात्रो भवति । अयमेव प्रोक्तविभाग आयुर्वेदीयचरकसंहितायां संस्कृतपदेनोच्यते। तत्रोक्तं संस्कृतलक्षणम्
विस्तारयति लेशोक्तं संक्षिपत्यतिविस्तरम् । संस्कर्ता कुरुते तन्त्रं पुराणं च पुनर्नवम् ॥ अतस्तन्त्रोत्तममिदं चरके णातिबुद्धिना ।
संस्कृतं' तत्.................॥ सिद्धि० १२।६६,६६॥ इयं तावत् वास्तविकी स्थितिः, यत्समग्रे संस्कृतवाङ मये ये मूलभूताः शास्त्रपदालङ कृता विद्याग्रन्था सम्प्रत्युपलभ्यन्ते ते सर्वेऽपि तत्तदाचार्याणां प्रवचनरूपा एव, न तु तत्कृतयः । ___ सति चैवम्, अष्टाध्यायीधातुपाठावपि पाणिनेः प्रोक्तौ ग्रन्थौ ! अतोऽनयोर्यत्र क्वचिदपि विरुद्धांशो मिरर्थकांशो वा दृश्यते तत्र विभिन्नस्रोतोभ्यां संगृहीतौ तावित्येवं समाधेयम् । अयमेव च राजमार्गोऽष्टाध्याय्यामप्युपलभ्यमानानां विरोधादीनां परिहारे द्रष्टव्यः ।
१. द्रष्टव्यं यथाक्रमम् –४।२।७; ४।३।१०१; ४१३।११५; ४।३।७७. ११६; ४।३।६६॥
२. अयं चरको वैशंपायननाम्ना प्रसिद्धो महर्षिः । चरक इति वैषम्पायनस्याख्या इति वृत्तिकृत् (का०४।३।१०४) । अत एव सर्वेऽपि वैशम्पायनशिष्याश्चरका इत्युच्यन्ते । त एव शतपथादिषु चरकाध्वर्यु-नाम्ना स्मर्यन्ते । द्र०कविराज-सूरमचन्द्रकृतः, 'आयुर्वेद का इतिहास' नामा ग्रन्थः ।
३. इदमेव प्रतिसंस्कृतशब्देनाप्युच्यते । तथा च चरकसंहितायां प्रत्यध्यायान्ते पठ्यते-अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते।