________________
(३)
न तस्य पणिनेरिव अस भुवि इति गणपाठः । न्यास भाग १ पृष्ठ
२२६ ।
अनेन स्ववचनविरोधेन निग्रहस्थाने निपतितस्य न्यासकारस्यापाणिनीयत्वमतं कथंकारं प्रमाणतां भजेत् ।
न्यासकारस्य भ्रान्तिः - अपि चास्मन्मते न्यासकारस्य धातुपाठस्यापाणिनीयत्वप्रतिपादकौ हेतू हेत्वाभासावेव । नहि खल्वयं न्यासकारः प्रोक्तकृतयोर्ग्रन्थयोरन्तरं वेत्ति इत्यपि तदीयपूर्ववचनालोचनया विज्ञायते । स हि खलु अष्टाध्यायी धातुपाठश्च पाणिनिना कृतौ ग्रन्थावित्यास्थायालोचयांचकार । यदि हि नाम केवलामष्टाध्यायीमपि तदीयां कृति मत्वाऽऽलोचयेम तहि तस्यामपि पदे पदे विरोधः शक्य उपस्थापयितुम् । तथाहि-
१. प्रौड प्रापः ( ० ७।१।१८) इत्यत्र औङ - पदेन श्रौ - श्रट् इत्येतौ सुप्प्रत्ययावभिप्रेतौ । न च पाणिनिना क्वचिदण्यष्टाध्याय्यां प्रो-प्रोट् इत्येतयोरोङ संज्ञा विधीयते ।
२. श्राङि चापः श्राडो नाऽस्त्रियाम् (श्र० ७ । ३ । १०५, १२० ) इत्यनयोराङपदेन तृतीयैकवचनं टा निर्दिश्यते । न च क्वचित् पाणिनिना टाया' ग्राङ संकेतः प्रतिज्ञातः ।
एवमन्यत्रापि द्रष्टव्यम् । सति चैवं विरोधेऽष्टाध्याय्या पि पाणिनीयत्वं दूरेऽपाकृतं स्यात् । यदि हि नाम पूर्वसूत्र - निर्देश - हेतुनाष्टाध्याय्यां विरोधपरिहारः कर्तुं शक्यः तर्हि तेनैव हेतुनाऽष्टाध्यायीधातुपाठयोरपि विरोधपरिहारः कथंकारं न भवेत् । पूर्वसूत्र
१. अत्र 'क्वायां कित्प्रतिषेधश्च' ( महा० १ २ ।१ ) इति वार्त्तिकवचनं; 'टाया आदेशः, टायामादेश:' इति कैयटवचनं चानुसन्धेयम् (महा० प्रदीप १ । १।३९); 'क्त्वायां विकल्पः', 'क्त्वायां च' इति वामन: ( काशिका ७/२/५० ) 'कत्त्वायामिडविकल्पार्थः • इति धातुवृत्तौ ( पृष्ठ ३८८ ) सायणः । सूत्रपाठे तु भगवान् पाणिनिराकारलोपं शास्ति । यथा - जव्रश्च्यो क्त्वि ( ० ७।२।५५) ।
i
२. निर्देशोऽयं पूर्वसूत्रेण वा स्यात् । महा० ७ । १ । १८ ।। एवमन्यत्रापि महाभाष्ये १।१ झभसूत्रे ; १ २०६८ ४११,१४; ६ । १ । १६३ - ४ ७ पूर्वसूत्रनिर्देश उपलभ्यते ।