________________
(२)
तत्प्रोक्तो धातुपाठोऽप्यासीदिति संभाव्यते । सर्वनाम्नां धातुजत्वप्रतिपादकस्य वैयाकरणमूर्धन्यस्य शाकटायनस्य धातुपाठप्रवचने शङ्कव नोदेति । एवं पाणिनेरुत्तरवर्तिनां पूर्ववर्तिनां च शब्दशास्त्रप्रवक्तृणां तत्तद्धातुपाठस्य प्रवक्तृत्वे' निश्चिते शक्यत ऊहितु यद् भगवता पाणिनिनाऽपि शब्दानुशासनं प्रवचता धातुपाठस्यापि प्रवचनमवश्यं कृतं स्यात् ।
पाणिनेर्धातुपाठः ___ यं धातुपाठं पाणिनीया वैयाकरणा आद्रियन्ते व्याचक्षते च, स पाणिनि-प्रोक्त इति समेषां पाणिनीयानां मतम् ।
एतस्य पाणिनीयत्वे न्यासकारस्याक्षेपः-पाणिनीयेषु वैयाकरणेष काशिकाव्याख्याता न्यासकारो जिनेन्द्रबुद्धिरेक एव तादृशो वैयाकरणो य एतस्य धातुपाठस्य पाणिनीयत्वं न स्वीकरोति । तथा ह्याह
१. प्रतिपादितं हि पूर्व' गणकारः पाणिनिर्न भवतीति। तथा चान्यो गणकारोऽन्यश्च सूत्रकारः । न्यास भाग २ पृष्ठ ८४०।।
२. यद्यत्र त्रिग्रहणं क्रियते, निजादीनामन्ते वृत्करणं किमर्थम् ? एतद् गणकारः प्रष्टव्यः, न सूत्रकारः । अन्यो हि गणकारोऽन्यश्च सूत्रकार इत्युक्तं प्राक् । न्यास भाग २ पृष्ठ ८७३।..
न्यासकारस्य स्ववचनविरोधः--धातुपाठस्यापाणिनीयत्वप्रतिपादके न्यासकारस्य द्वे वचने पुरस्तादुद्धृते । परमेकत्राऽऽपिशलधातुपाठमालोचयनयं न्यासकारः 'किञ्चिद् धातुगणं पाणिनीयम्' इत्यपि प्रतिपेदे । तथा चाह
१. पाणिनेः पूर्वोत्तरवर्तिभि. प्रोक्तानां धातुपाठानामितिवृत्तमास्माकीनस्य 'सं० व्या० शास्त्र का इतिहास' ग्रन्थस्य द्वितीयभागे विंशतितमेऽध्याये (पृष्ठ २६-४३; सं० २०४१) द्रष्टव्यम् ।
२. नहि क्वचित् पूर्वं न्यासे धातुगणकारस्यान्यत्वप्रतिपादकं वचनमुपलब्धम् । प्रातिपदिकगणकारस्यान्यत्वं तु पूर्वं बहुत्रोक्तम् । प्रातिपदिकगणमपि पाणिनीयमिति 'संस्कृत व्याकरण शास्त्र का इतिहास' ग्रन्थस्य द्वितीये भागे सप्रमाणं २३ तमेऽध्याये प्रतिपादितम् ।
३. गणकारशब्देनात्र धातुगणकारोऽभिप्रेतः, एवमुत्तरत्रापि ।