________________
पाणिनीयो धातुपाठस्तवृत्तयश्च'
अस्ति संस्कृत-व्याकरण-वाङ्मये धातुपाठस्य विशिष्टं स्थानम् । नह्य तस्य प्रवचनं विना कश्चिदप्याचार्यः शब्दानुशासनप्रवचने समर्थो भवति । अत एव पाणिनेरौत्तरकालिकाः कातन्त्र-चान्द्र-जैनेन्द्र-शाकटायन-हैमप्रभृतिशब्दानुशासनानां सर्व एव प्रवक्तारः स्वं स्वं धातूपाठं प्रोचः । पाणिनेः पौर्वकालिकैः सर्वैः शब्दशास्त्र-प्रवक्तभिर्धातुपाठस्य प्रवचनं कृतं नवेत्यत्र यद्यपि न शक्यते याथातथ्येन वक्तुम्, तथापि पाणिनेः प्राचीनस्यापिशलेबहवो धातवो यत्र तत्र ग्रन्थेषपलभ्यन्ते', तेन तस्य धातुपाठप्रवक्तृत्वं स्पष्टमेव । ततोऽपि प्राक्तनस्य भगवतः काशकृत्स्नस्य सम्पूर्णो धातुपाठश्चन्नवीरकविकृतया कन्नडटीकया सनाथीकृत एष पञ्चषेष वर्षेष प्रकाशतामुपगतः । एवं भागूरेराचार्यस्य यानि मतानि ग्रन्थेषुपलभ्यन्ते तेष्वनेकधातूनां निर्देशात्
१. अस्माभिः पणिनेः पूर्ववर्तिनामुत्तरत्तिनां सर्वेषामपि धातुपाठप्रवक्तणामाचार्याणां तत्तद्धातुपाठस्य वृत्तिकाराणां चेतिवृत्तं 'संस्कृत व्याकरण शास्त्र का इतिहास' इति नाम्नो ग्रन्थस्य २०-२१.२२ तमेष्वध्यायेषु (भाग २, पृष्ठ २६-१४३) विस्तरेण लिखितम्, तत् तत्रैवावलोकनीयम् । इह तु पाणिनीयधातुपाठस्य तवृत्तीनां च विषये किञ्चिल्लिख्यते ।
२. सकारमात्रमस्तिं धातुमापिशलिराचार्यः प्रतिजानीते । न्यास १११।२२, पृष्ठ २२६ । एवमन्यत्रापि (न्यास पृ० ६६८, ६६६,७०१) द्रष्टव्यम् । उषिजिघर्ती छान्दसौ धातू, व्याकरणस्य शाखान्तरे आपिशलादौ स्मरणात् । स्कन्द-निरुक्तटीका भाग, २ पृष्ठ २२ ॥ [तु] छान्दसोऽयमित्यापिशलिः । धातुप्रदीप पृष्ठ ८०.।
३. क्षीरतरङ्गिण्याः प्रथमसंस्करणप्रकाशनसमयानुसारम् (प्र० सं० काले वै० २०१४) । २०२२ तमे वैक्रमाब्दे चन्नवीरकृतायाः टीकायाः संस्कृतरूपान्तरं 'काशकृत्स्न-धातुव्याख्यानम्' इति नाम्ना मया प्रकाशितम् ।
४. भागुरे: शब्दानुशासनस्योपलब्धान्युद्धरणान्यस्माभिः स्वीये 'संस्कृत व्याकरण शास्त्र का इतिहास' नाम्नि छन्थे संकलितानि । द्र० भाग १, पृष्ठ २०६ - २०७ (सं० २०४१) ।