________________
ईडिः स्तुतिचोदनायाच्या दृष्टः, प्रेरणे चापि वर्तते-अग्निर्वा इतो वृष्टिमी? मरुतोऽमुतश्च्यावयन्ति इति । करोतिरभूतप्रादुर्भावे दृष्टः, निर्मलीकरणे चापि वर्तते - पृष्ठं कुरु, पादौ कुरु, उन्मृदानेति गम्यते। महा० १॥३॥१॥
अत्र महाभाष्यकृता केषाञ्चिदर्थानां दृष्टत्वमुक्तम्, केषाञ्च्च्चि वर्तनत्वम् । तत्र दृष्ट:-वर्तते-पदयोरैकार्थ्यं नेति'तु वाक्यविन्यासादेव स्पष्टम् । तेन योऽर्थो दृष्ट इत्युक्तस्तस्यायमेवाभिप्रायो यत् से धातुपाठे पठितो दश्यत इति । यस्त्वर्थो वर्तते-क्रियया निर्दिष्टः, स खलु धातुपाठेऽपठिनोऽपि लोकेवेदयोरुपलभ्यत इति ।
४-बहवो हि वैयाकरणा धातुपाठे पठितानामर्थनिर्देशानां सूत्रवत् । प्रामाण्यं स्वीकुर्वन्ति । तद्यथा-. . क-कथमुद्यमोपरमो ? अड उद्यमे यम उपरमे इति निपातनादनुगन्तव्यौ । काशिका ७।३।१४।। ____ख-धू विधूनने तृप प्रीणने इति निपातनादेतयोर्नु ग् भविष्यति । न्यास भाग २ पृष्ठ ७६२॥
ग--शुभ शुम्भ शोभार्थे । अत एव निपातनात् शोभा साधुः । क्षीरत० ६॥३४॥
घ-शोभेति निपातनात् इति काव्यालङ्कारे (५।२।४१) वामनोऽपि।
यदि हि नाम धात्वर्थनिर्देशः पाणिनीयो नाभविष्यत् तहि वैयाकरणानां तत्र सूत्रवत् प्रामाण्यबुद्धिरपि नोदैष्यत् । दृश्यते च यतस्तत्र सूत्रवत् प्रामाण्यबुद्धिस्तस्मात् स्पष्टमेव यद् धात्वर्थनिर्देशान् प्रमाणीकुर्वन्तो वैयाकरणास्तानार्थनिर्देशान् पाणिनीयानेव मन्यन्ते ।
१. इह बीजसन्तानस्य प्रकिरणशब्देन, करणस्याभूतप्रादुर्भावशब्देनार्थतो निर्देशो द्रष्टव्यः । ईडे: चोदनायाच्याऽयौं धातुपाठे पठितौ नोपलभ्येते । तत्र कारणमुपरिष्टाद् वक्ष्यते।
२. यथा हि न्यासकारो धातुपाठमपाणिनीयं मन्यमानोऽप्येकत्र तस्य पाणिनीयत्वमभ्युपगत वान् (तत्प्रमाणं पूर्व निर्दिष्टम्, पृष्ठ २-३) । तथैवेह धात्वर्थनिर्देशानामपि सूत्रवत् प्रामाण्यं स्वीचकार (द्र० ख-वचनम्) ।