________________
(११)
५ - धातुवृत्तिकारा बहुत्र घातुसूत्राणां संहितापाउस्य प्रामायमाश्रित्य सूत्रविच्छेदे विप्रवदन्ते । यथा
क - तपऐश्वर्येवावृतुवरणे ( क्षीरत० ४।४८, ४६ ) इति दैवादिकपाठे मध्ये पठ्यमानं वा पदं पूर्वसूत्रस्यावयवः, उतोत्तरस्य । पूर्वावयवे भौवादिकस्य तप सन्तापे ( क्षीरत० १ । ७१२ ) इत्यस्यैश्वर्ये वा दिवादित्वमाचष्ट इत्येके मन्यन्ते । उत्तरावयवेऽपि वा इति पृथक् पदं सद् भौवादिकस्य वृतु धातो: ( क्षीरत० १।५०४ ) वरणे वा दिवादित्वं ब्रूते इत्यपरे संगिरन्ते, धात्वेकदेशो वावृतु इति धातुरित्यन्य प्रातिष्ठन्ते ।
ख - - पतगतौ वापशअनुपसर्गात् ( क्षीरत० १०।२४६, २५० ) इत्यत्रापि वा पदं पूर्वसूत्रावयवः, उतोत्तरस्येति विवाद: । केचन पूर्वसूत्रावयवं मन्यमानाः पत-धातोर्गतौ वा णिजुत्पद्यत इत्याहुः । त्रपर उत्तरसूत्रावयवं मन्यमाना अपि वा पदं स्वतन्त्रमभ्युपगम्य पशोऽनुपसर्गाद् वाऽदन्तत्वमाहुः, अन्ये तु वा शब्दं धात्ववयवं ब्रुवाणा वापश इति धातु स्वीचक्रुः ।
ग- - तत्रिकुटुम्बधारणे ( १० | १२८ ) अत्र व्याख्यातारो विवदन्ते 'तत्रि कुटुम्बधारणे' उत 'तत्रि कुटुम्ब धारणे इति द्वौ धातू ।
अयं सर्वोऽपि विवादो धात्वर्थनिर्देशानां पाणिनीयत्वमुररीकृत्यैवोपपद्यते । यदि हि नामैतादृशेषु स्थलेषु भवेधस्पर्ध-वत् केवलो धातुनिर्देश एव पाणिनीयोऽभविष्यत् तर्हि तपवावृतु पतवापश इत्येवं संहितापाठे वा शब्दे पठ्यमानेऽपि वावृतु धातोः वापश धातोश्च स्वरूपे सन्देह एव नोत्पद्यते, वा-रहितपाठे तु नतराम् । यदि हि तपवावृतु पतवापश, इत्यर्थविरहिते पाठे सन्देहावसरः स्यादपि तदा तपवावृतु यद्वा तपवा-वृतु, एवं पत-वापश यद्वा पतवा-पश इत्येवं सन्देहः स्यात्, न तु यथा वृत्तिकारा प्राहुस्तथा ।
सायणः सार्थपाठं पाणिनीयं मन्यमानः तपऐश्वर्ये वावृतुवरणे
१. ग्रत्र क्षीरतरङ्गिणी ( ४/४८, ४९ ), धातुप्रदीप: ( पृष्ठ 2३ ), पुरुष - कार : ( पृष्ठ ९३ ) ; धातुवृत्तिः (पृष्ठ २९३ ) सिद्धान्तकौमुदी च द्रष्टव्याः । २. पत्र क्षीरतरङ्गिणी १०।२४६, २५० द्रष्टव्या ।