________________
(१२) इत्यत्र तप ऐश्वर्य वा-वृतु वरणे इत्येवं, तप ऐश्वर्ये वावृतु वरणे इत्येवं चोभयथा सन्धिविच्छेदमपि पाणिनीयमाह । तथापि -
अस्माकं तुभयमपि प्रमाणमाचार्येणोभयथर शिष्याणां प्रतिपादनात् । धातुवृत्ति पृष्ठ २६३।।
६-यदि हि पाणिनीये धातपाठेऽर्थनिर्देशोऽपाणिनीयः स्यात तर्हि समाने प्रघट्टके एकस्यैव धातोद्धिः पाठो नोपपद्यते । धातुस्वरूपनिदर्शनाय सकृत् पाठ एव पर्याप्तः स्यात् । तथाहि
क- अट्टादिषु हुडेः-हुडि संघाते, हुडि वरणे (क्षीरत० १।१७२, १८०)। ___ ख-शौट्टादिषु किटः - किट खिट त्रासे, इट किट कटी गतौ (धातुवृत्ति पृष्ठ ७७,७६)।
ग-मव्यादिषु खेलः- केल खेल क्ष्वेल वेल्ल चलने, पेल खेल शेलु खेल गतौ (द्र० धातुवृत्ति पृष्ठ १०५,१०६)' ।
७- एवमेव धात्वर्थानामपाणिनीयत्वे समानार्थकेषु धातुषु सकृत् पठितस्य धातोरुत्तरसूत्र एवान्यार्थनिर्देशाय पुनः पाठो नोपपद्यते । यथा__क-रघि लघि गत्यर्थाः, लघि भोजननिवृत्तावपि (क्षीरत० १॥ ७६, ७७)।
ख-गज गजि.....शब्दार्थाः, गज मदने च (क्षीरत० १।१५६, १५७)।
ग–तय नय गतौ, तय रक्षणे च (क्षीरत० ११३१८, ३१६)। एवमन्यत्रापि द्रष्टष्यम्।।
धात्वर्थनिर्देशस्यापाणिनीयत्वे एकस्य धातोः समाने प्रघट्टके सकृत् प्रवचनमेव संभवति, न द्विः । अर्थनिर्देशाभावेऽर्थभेदात् पुनः पाठ इति हेतोरभावात् । यदि हि नाम केनचिद् अक्किालिकेनार्थविरहिते पाणिनीये पाठे धातुभिः सहार्थसंयोजनं कृतं स्यातहि एकस्य धातोविविकस्मिन्नेव स्थाने निर्दिशेत्, न तु पाणिनिना सकृत् पठितस्य
१. अत्र पेल शेल फेल गतौ इति सूत्रव्याख्या द्रष्टव्या।