________________
(१३)
धातोरर्थभेदात् द्वयोः स्थानयोः पाठं कुर्यात् । अनेन ज्ञायते, यथा पाणिनिना सूत्रपाठे बहुलं छन्दसि इति समानवर्णानुपूर्विकं सूत्रमर्थभेदात् चतुर्दशसु स्थानेषु पठितं तथैव धातुपाठेऽपि एक एव धातुरर्थ - भेदाद्द्वस्त्रिर्वापठित इति ।
,
एतैः प्रमाणैर्धातूनामर्थनिर्देशः पाणिनीय इति विस्पष्टमुक्तं भवति ।
धातुपाठस्य द्विधामवचनम्
उभयोर्वादयोनिर्णयः - धातुपाठस्थोऽर्थनिर्देशः पाणिनीय उतापाणिनीय इत्यत्रोभयथाऽपि प्रमाणानि निर्दिष्टानि । तत्र त्वेष निर्णयः --- उभयथा ह्याचार्येण भगवता पाणिनिना धातुपाठस्य प्रवचनमकारि । तत्र केचन शिष्या अर्थनिर्देशं विना भवेधस्पर्ध इत्येवं धातून् एव संहितापाठेन प्रतिपादिताः, अपरे भू सत्तायाम् उदात्त, एध वृद्धौ इत्येवं सार्थान् । अत एव महाभाष्य उभयथा निर्देशा उपलभ्यन्ते ।
लघुपाठो वृद्धपाठश्च - तत्रार्थनिर्देशं विना धातूनां यः पाठः स लघुपाठो ज्ञेयः, सार्थपाठो वृद्धपाठः 1
अष्टाध्याय्या द्विधापाठ: - यथा धातुपाठस्य द्विविधः पाठः पाणिनीयः, एवमष्टाध्याय्या अपि द्विविध: पाठ उपलभ्यते । एको वार्त्तिकभाष्याश्रयभूतः, अपरः काशिकादिवृत्तिकाराश्रितः । तत्र वार्त्तिक - भाष्याश्रयभूतोऽष्टाध्याय्या लघुपाठः, काशिकाकाराश्रितो वृद्धपाठः । अष्टाध्याय्याद्विविधपाठविषयेऽस्माभिः 'संस्कृत व्याकरण शास्त्र का इतिहास' नाम्नि ग्रन्थे विस्तरेण प्रतिपादितम्', तत्तत्रैव द्रष्टव्यम्, विस्तरभिया नेह प्रपञ्च्यते । एवमेवान्येष्वपि निघण्टु निरुक्त- स्मृतिनाट्यशास्त्रादिषु द्विविधः पाठ उपलभ्यते ।
वात्तिकपाठस्याश्रयः: - यथा वार्तिककारोऽष्टाध्याय्या लघुपाठमाश्रित्य वार्त्तिकं सूत्रयामास, तथैव धातुपाठस्यापि सो र्थरहितं लघुपाठमेवाशिश्रयदिति परिमाणग्रहणं च ( १।३।१ ) इति तदीयवातिकात् पातञ्जलव्याख्यानाच्च सुवचनम् ।
भट्टनागेशस्य भ्रान्तिः -- धातूनामर्थनिर्देशविषये महाभाष्ये द्विः प्रकार१. द्र० सं० व्या० शा० का इतिहास, भाग १, पृष्ठ २३७-२३६; सं० २०४१ ।