________________
(१४)
कान् निर्देशानुपलभ्य पातञ्जले वचसि कृतभूरिपरिश्रमः' प्रमाणितशब्दशास्त्रस्तत्र भवान् नागेशभट्टोऽपि भ्रान्तस्तत्रान्येषां का कथा । स हि 'कांश्चिन्नुमनुषक्तान् पठति-उबुन्दिर् निशामने स्कन्दिर् गतिशोषणयोः इति भाष्यपाठं (१।३।७) व्याचक्षाण आह__ नुमेति-एतद्भाष्यात् केषाञ्चिद् धातूनामर्थनिर्देशसहितोऽपि पाठ इति विज्ञायते। भाष्यप्रदीपोद्योत १॥३७॥ . . . किम् अर्थनिर्देशो भीमसेनीयः-ौत्तरकालिका अनेके पाणिनीया विद्वांसो मन्यते यत् पाणिनीये धातुपाठे ये धात्वर्था उपलभ्यन्ते ते केनचिद् भीमसेननामकेन वैयाकरणेन पठिताः । तथाहि
१- नागेशभट्टः 'न चार्थपाठः परिच्छेदकः, तस्यापाणिनीयत्वात्' इति प्रदीपवचनं व्याचक्षाण आह
भीमसेनेनेत्यैतिह्यम् । प्रदीपोद्द्योत १॥३॥१॥ २-भट्टोजिदीक्षितोऽप्याचष्टेक-तितिक्षाग्रहणं ज्ञापकं भीमसेनादिकृतोऽर्थनिर्देश उदाहरणमात्रम् । शब्दकौस्तुभ १।२।२०॥
ख-न च या प्रापणे इत्याद्यर्थनिर्देशो नियामकः । तस्यापाणिनीयत्वात् । भीमसेनादयो हि अर्थ निदिदिक्षुरिति स्मर्यते । श० कौ० ११ ३।१॥
३-धातुप्रदीपकारो मैत्रेय आहबहुशोऽमून् यथा भीमः प्रोक्तवांस्तद्वदागमात् । धातुप्रदीप पृष्ठ १॥
४-उमास्वातिभाष्यव्याख्याता सिद्धसेनगणी ( सं० ७०० ) प्रोवाच - ___ भीमसेनात् परतोऽन्यैर्वैयाकरणैरर्थद्वयेऽपठितोऽपि [चिति] धातुः संज्ञाने विशुद्धौ च वर्तते । पृष्ठ २६४ ।
१. तत्र भवान् नागेशभट्टोऽष्टादशवारं गुरुमुखाद् भाष्यं शुश्रावेति वैयाकरणनिकाये प्रसिद्धिः ।
२. तुलनीयम् - न च प्रापणादिरों नियामकोऽनार्षत्वात् । अभियुतैरुत्तरकालनिर्दिष्टत्वात् । पदमञ्जरी १।३।१ पृष्ठ २११ ।