________________
(१५)
पूर्वनिर्दिष्टैः प्राचीनैः सुदृढैश्च प्रमाणैर्धात्वर्थनिर्देशानां पाणिनीयत्वे सिद्धे नागेशादीनां वचनानि भ्रममूलान्येव । 'भीमसेनकृतोऽर्थनिर्देशः ' इति नहि कस्मिश्चिदपि प्रामाणिके ग्रन्थ उपलभ्यते । ग्रतः 'इत्यैति - ह्यम्' 'इति स्मर्यते' इत्यादिनिर्देशोऽपि भ्रान्तिमूलक एव । तृतीयचतुर्थयोरुद्धरणयोस्तु नैतद् व्यक्तमुक्तं यद् भीमसेनोऽर्थ निर्देशक इति । ताभ्यां त्वेतावदेव ज्ञायते यदस्ति भीमसेनस्य पाणिनीयधातुपाठेन सह कश्चित् सम्बन्ध इति ।
भ्रान्तेः कारणम् - भीमसेननामा कश्चिद् वैयाकरणो धातुपाठस्य वृत्तिकारो व्याख्याता वाऽऽसीद् इत्युपरिष्टाद् वक्ष्यते । सम्भाव्यतेऽनेनैव संबन्धेन पूर्वनिर्दिष्टा भ्रान्तिरुत्पन्ना स्यात् ।
अन्या भ्रान्तिः –केचनेतिहासानभिज्ञा एनं भीमसेनं पाण्डुपुत्रं वृकोदरापरनामानं मन्यन्ते । तदतीवाविचारितरमणीयम् । भगवान् पाणिनिरेव भारतयुद्धात् सार्धद्विशतवर्षेभ्य उत्तरतो बभूव', तत्र पाणिनेः पूर्वभाविनो वृकोदरस्य पाणिनीयधातुपाठेऽर्थनिर्देशो न कथमपि संभाव्यते ।
लघुपाठस्योच्छेदः
यः खलु धातूनामर्थविरहितो भ्वेधस्पर्ध इत्येवंविधो लघुपाठः, स इदानीं नोपलभ्यते । मन्ये पठनपाठने सार्थस्य वृद्धपाठस्योपयोगाल्लघुपाठो नाशं गत इति ।
1
- वृद्धस्य त्रिविधः पाठः
भारतीये वाङ् मये बहूनां ग्रन्थानां देशभेदेन विविधाः पाठा उपलभ्यन्ते । पाणिनीयव्याकरणेऽपि केषाञ्चिद् ग्रन्थानामियमेव दशोपलभ्यते । तथाहि
भ्रष्टाध्याय्याः - पाणिनेरष्टाध्याय्याः पौर्वः पश्चिमोत्तरदेशीयो दाक्षिणात्यश्चेत्येवं त्रयः पाठा उपलभ्यन्ते । काश्यां भवा काशिका - वृत्तिर्यं पाठमाश्रयति स पूर्वदेशीयः । क्षीरस्वामी क्षीरतरङ्गिण्यां यं
१. पाश्चात्त्या विद्वांसी हि पाणिनिर् ईसवीयाब्दात् प्राक् चतुर्थशत्या आषष्ठशति व्यवस्थापयन्ति । तदैतिह्यविरुद्धम् । द्र० सं० व्या० शास्त्र का इतिहास' प्रथम भाग, पृष्ठ २०५-२२१ (सं० २०४१) ।