________________
(१६)
सूत्रपाठ निर्दिशति स पश्चिमोत्तरदेशीयः । दाक्षिणात्यस्तत्र भवान् कात्यायनो' यं सूत्रपाठमनुसृत्य वार्तिकपाठं प्रोवाच स खलु दाक्षिणात्यः । एषु पूर्वदेशीयो वृद्धपाठः, अपरौ तु लघुपाठौ । इमौ च प्रायेण समानौ ।
पञ्चपाद्य णादेः - पाणिनीयसम्प्रदायसंबद्धानां पञ्चपाद्युणादिसूत्राणामपि त्रिविधः पाठो दृश्यते । उज्ज्वलदत्तादीनां पौर्वः पाठः । क्षीरस्वामिना क्षीरतरङ्गिण्यामुद्धृतः पश्चिमोत्तरदेशीयः ।
नारायणश्वेतवनवासिनोर्दाक्षिणात्यः । अत्रापि पौर्वो वृद्धपाठः, अपरो लघुपाठौ । अनयोरल्पीयानेव विशेषः ।
धातुपाठस्य - - एवं सार्थस्य धातुपाठस्यापि देशभेदेन त्रयः पाठा दृश्यन्ते । तथाहि
पूर्वदेशीयः - धातुपाठस्य प्राच्या व्याख्यातारो मैत्रेयप्रभृतयो यं पाठमाद्रियन्ते, स पौर्वः पाठो द्रष्टव्यः । न्यासकारोऽपि पौर्वपाठमेवोद्वरित ।
पश्चिमोत्तरदेशीयः पश्चिमोत्तरदेशीयाः क्षीरस्वाम्यादयो यं पाठसाश्रयन्ति, स पश्चिमोत्तरशीयः ।
१. प्रियतद्धिताः दाक्षिणात्याः । महाभाष्य १ १ ० १ ।।
२. पञ्चदाद्युणादिसूत्राणां त्रिधा विभागोऽस्माभिरेवोपज्ञातम् । एतद्विषये जैनेन्द्रमहावृत्तेरादो 'जैनेन्द्र व्याकरण और उस का खिलपाठ' नामाऽस्मदीयो लेखो द्रष्टव्यः ( द्र० भारतीय ज्ञानपीठ काशी संस्क० ) । प्रयं पञ्चपादी पाठोऽपि कंचित् त्रिपादपाठमनुरुणद्धि । एतच्च सर्व 'सं० व्या० शास्त्र का इतिहास' ग्रन्थस्य द्वितीयभागे विस्तरेण प्रपञ्चितम् । द्र० पृष्ठ २१५-२१६,
सं० २०४१ ।
३. क्षीरतरङ्गिणी सम्पादनकाल एतद्रहस्याविदितत्वाद् यत्र पौर्वपाठात् पाठभेद उपलव्धस्तत्र दशपादीसूत्राणां निर्देशोऽकारि । दशपादया द्वौ पाठी स्तः । तत्र अस्मत्संगृहीतहस्तलेखेषु कसंज्ञकस्य पाठः क्षीरस्वामिन: पाठेन सह प्रायेण संवदति । इत रहस्त लेखपाठाः पञ्चपादया दाक्षिणात्यपाठेन सह संगच्छन्ते । ४. तुलनीयम् - याष्टीकपारश्वधिको यष्टिपरशुहेति कौ ( अमर २८७१ ) अत्र क्षीरस्वामी - परशौ न दृष्टः, अतो यष्टिस्वाधितिहेतिक' इति काश्मीराः पठन्ति । पृष्ठ १८६, १६० ।