________________
(१७)
दाक्षिणात्यः-अयं पाठोऽस्माभिर्न साक्षादुपलब्धः । परन्तु दाक्षिणात्यः पाल्यकीर्तिराचार्यो यं पाणिनीयं धातूपाठमाश्रित्य स्वीयं धातूपाठं प्रोवाच, स दाक्षिणात्यपाठः सम्भाव्यते । पाल्यकीर्तेर्धातुपाठो न तथा पौर्वपाठेन संवदति यथा पश्चिमोत्तरपाठेन । तेनानुमीयते —यथा पञ्चपाद्यणादिसूत्राणां दाक्षिणात्यः पाठः पश्चिमोत्तरपाठेन विशेषतः संवदति, तथैव धातुपाठस्यापि दाक्षिणात्यपाठः पश्चिमोत्तरपाठेन प्रायः समान एव बभूवेति शक्य ऊहितुम् ।
धातुपाठचित्रम्-धातुपाठस्य ये विविधाः पाठाः पुरस्तादुपवणितास्तेषां सौकर्येण ज्ञानाय चित्रं चित्रीयते
पाणिनीयो धातुपाठः
धात्वर्थरहितः
। धात्वर्थसहितः
पौर्वः पश्चिमोत्तरीयः दाक्षिणात्यः साम्प्रतिकः पाठः - सम्प्रति पाणिनीयैर्यो धातुपाठ प्राद्रियते स पूर्वनिर्देष्टेभ्यस्त्रिविधेभ्योऽपि भिन्नः सायणपरिष्कृतो वर्तत इत्यनुपदं वक्ष्यामः ।
, पाठाव्यवस्था यः खल्वर्थनिर्देशसहितो धातुपाठः सम्प्रत्युपलभ्यते, तत्र पाठानां महत्यव्यवस्था दृश्यते । तत्र केषांचिद् धातूनां क्रमविपर्यासः, केषाञ्चिदर्थविपर्ययः, केषाञ्चिदभावः, केषांचित् पुनराधिक्यमपि दृश्यते । नहि धातुपाठस्य कयोरपि द्वयोर्व्याख्यानयोः समानः पाठ उपलभ्यते । एषा चाव्यवस्था चिरकालादेव प्रसृता, उत्तरोत्तरं च वृद्धि गता। तथाहि -
१–जक्षित्यादयः षट्.... नवार्थः परिगणनेन, प्रागणान्तमभ्यस्तसंज्ञा । इहापि तर्हि प्राप्नोति प्राङः शासु....। महा० ६।१।६।।
एतेन भाष्यवचनेन स्पष्टं यद्भगवतः पतञ्जले काले प्राङः शासु इच्छायाम् इत्यस्य धातोः वेवीङ् वेतिना तुल्ये (क्षीरत० २।७८) इत्य