________________
(१८)
नन्तरं क्वचित् पाठ आसीत् । ' भाष्यव्याख्यातुः कैयटस्य कालेऽपि आङ: शासु-धातोः वेवीङ उत्तरं पाठो नासीदिति तदीयव्याख्यानाद् विज्ञायते'। एतेन कैयटात् प्रागेव केनचिद् विदुषा प्राङः शासु धातोः श्रास उपवेशने (क्षीरत० २।१४ ) इत्यनन्तरं पाठः परिवर्तितः स्यात् । *
२ - गणान्तायामभ्यस्तसंज्ञायां येऽन्ये तत्र धातवस्तेभ्योऽप्यभ्यस्तकार्यं प्राप्नोति, तत् परिहरन्नाह भाष्यकार : - षसिवशी छान्दसौ ६।१६॥
प्रवाह कैयट : - षस शस्ति स्वप्ने इति ये न पठन्ति, केवलं षस स्वप्ने वश कान्तौ इति तन्मतेनैतदुक्तम् ।
एतेन कालेऽत्र द्विविधः पाठ आसीदिति स्पष्टम् । अयं द्विविध: पाठोऽद्याप्युपलभ्यते । क्षीरतरङ्गिण्यां षस स्वप्ने वश कान्तौ ( २२८१,८२ ) इति पाठो दृश्यते, धातुप्रदीपे बस सस्ति स्वप्ने वश कान्तौ इति ।
३ - क्षीरस्वामी धातुपाठागमस्य भ्रंशात् खिन्नमना ग्राहपाठेऽर्थे चागमभ्रंशान्महतामपि मोहतः,
न विद्मः किन्तु जहिमः किं वात्रादध्महे वयम् । चुरादिगणारम्भे ।
४ - धातुवृत्तिकारः सायणो बहुत्रेत्थं लिलेख -
क - यद्यपि मैत्रेयेणादितस्त्रय इदित उखिवखिमखयः, मूर्धन्यादिर्नखिरनिदित इखिश्च न पठ्यते, तथापि इतरानेकव्याख्यातॄणां प्रामाण्यादस्माभिः पठितः । धातुवृत्ति पृष्ठ ५६ ॥
ख - इह केचित् धृत्र धारणे इति पठन्ति, सोडनार्ष:अस्माभिस्तु मैत्रेयाद्यनुरोधेन ञित्प्रकरणे हरतेरनन्तरं पठित्वाऽयमुदाहृतः । धातुवृत्ति पृष्ठ १८४ ।
ग- गाङ् गतौ ..' गापोष्टक्' इत्यत्र न्यासपदमञ्जर्योरयं धातु
१. महाभाष्य प्रदीपोऽत्र द्रष्टव्यः ।
२. भाष्यकारेणात्रान्यदीयधातुपाठमाश्रित्यायं दोषनिर्देशस्तत्परिहारश्चोक्तः स्यादित्यपि संभाव्यते । अस्माभिस्तु कैयटाद्यनुरोधेन पाठभ्रंशोऽयमुदाहृतः । ३. काशीसंस्करणेऽत्र पाठोऽशुद्धो वर्तते ।