________________
(१९)
रादादिक इति स्थितम् । शपि पाठे चास्य प्रयोजनं नास्ति । अस्माभिस्तु क्वाप्ययं पठितव्य इति मैत्रेयाद्यनुसारेणेह पठितः । धातुवृत्ति पृष्ठ १८५ ।
घ - षच समवाये." " एवं च न्यासकारादीनां बहूनामभिमतत्वादयं धातुरस्माभिः पठितः । धातुवृत्ति पृष्ठ २०२ ।
ङ - यथा तु भाष्यवृत्तिन्यासपदमञ्जर्यादिषु तथाऽयं धातुर्नेति प्रतीयत इति जीर्यतावुपपादितम् । श्रात्रेय मैत्रेयपुरुषकारादिषु दर्शनादिहास्माभिलिखितम् । धातुवृत्ति' ।
च -- एते पञ्चदश स्वामिकाश्यपानुसारेण लिख्यन्ते । धातुवृत्ति पृष्ठ २९३ ।
छ - तत्राद्यो बृहिश्च मैत्रेयानुरोधेनास्माभिर्दण्ड के पठितः । धातुवृत्ति पृष्ठ ३६३ ।
A
ज - डुकृञ् करणे इति भूवादौ पठ्यते । स्माभिर्धातुवृत्तावयं धातुर्निराकृतः । ऋग्भाष्य ऋग्भाष्य १।४२।७ प्रपि द्रष्टव्यम्
५ - महाभाष्ये (१।३।१) पठ्यते - ईडिः स्तुतिचोदनायाच्ञासु
दृष्ट:'
J
• श्रनेन प्रकारेणा११८२।१।। इत्थमेव
सम्प्रति धातुपाठे 'ईड स्तुतौ' इत्येवं पठ्यते, चोदनायाच्ञार्थी नोपलभ्येते ।
एभिः प्रमाणैर्हस्तामलकवद् विस्पष्टं भवति, यत्पाणिनीये धातुपाठे चिरकालात् पाठविपर्यासारम्भोऽभूत् । सायणेन तु धातुपाठे महत्या स्वच्छन्दतया पाठपरिवर्तनं परिवर्धनं च व्यधायि ।
साम्प्रतिकः पाठः सायणपरिष्कृतः पाणिनीयवैयाकरणेषु यः
१. अयं पाठ: चौखम्बासंस्करणे 'ज वयोहानौ' (पृष्ठ ३९४ ) इत्यत्र नोपलभ्यते । मैसूरसंस्करणे (भाग ४, पृष्ठ २९४ ) तु दृश्यते । मन्ये काधीसंस्करणे ग्रन्थपातः संजातः ।
२. अत्र 'धृञ् धारणे' इति धातु- व्याख्यानन्तरं धातुवृत्तौ (पृष्ठ १६३ ) पठितः ‘अत्र केचित् कृञ् करणे धातु पठन्ति इत्यादिपाठो द्रष्टव्यः ।
३. तन्त्रान्तर निर्देशोऽध्यत्र भाष्ये संभाव्यते ।