________________
(२०)
सार्थो धातपाठः सम्प्रत्युपयुज्यते, न स प्राचीनो पार्षपाठः, अपि तु विविधग्रन्थसाहाय्येन सायणद्वारा परिष्कृतः । सायणपरिष्कारस्तु पूर्वोदाहृतस्तदीयवचनैः स्पष्ट एव । तदनु भट्रोजिदीक्षितेनापि तत्र स्वल्पः संस्कारो विहितः। एताभ्यामुभाभ्यां संस्कृतो धातुपाठ एवाद्यत्वे पाणिनीयत्वेनाभ्युपगम्यते वैयाकरणैः । तत्र सायणेन तन्त्रान्तरप्रसिद्धानां भूयिष्ठानां धातूनां प्रक्षेपात् स्वशास्त्रपठितानां च परित्यागान्नायं पाणिनीयशब्देन व्यवहतु योग्यः । भूयसा व्यपदेश इति न्यायेन तादृशपाठस्य सायणपाठः इत्येव समीचीनाऽऽख्या स्यात् । __ भोटलिङ्गीयः पाठः-संप्रति पाश्चात्त्यलेखकैस्तदुपजीविभिर्भारतीयैश्च यो धातपाठः प्रामाणिकत्वेन स्वीक्रियते, स जर्मनदेशीयेन भोटलिङ्गेन संगृहीतः, न स पाणिनीयः । तेन हि तन्त्रान्तरप्रसिद्धानामपि यथासम्भवं सर्वेषां धातूनां तत्र विना विचारं संग्रहो व्यधायि । अतोऽयं पाठः सायणपाठादपि भ्रष्टतरः, प्रमाणविरहितश्च वर्तते।
___ संहितापाठस्य प्रामाण्यम् यथाऽष्टाध्याय्यां सूत्राणां संहितापाठस्यैव प्रामाण्यमभ्युपगम्यते पतञ्जलिप्रतिभिराचार्यंस्तथा धातुपाठेऽपि धातुसूत्राणां संहितापाठस्यैव प्रामाण्यमुररीक्रियते व्याख्याकारैः । अत एव यत्र तत्र धातुसूत्रविच्छेदे विवदन्ते वृत्तिकाराः तथाहि
क-'रादाने' इति संहितापाठस्य ‘रा दाने' 'रा आदाने' इत्युभयथा विच्छेदो दृश्यते । अत्रास्यैव (२।५०) धातोरधस्तात् १८६ तमे पृष्ठे प्रथमा टिप्पणी द्रष्टव्या। . ___ख-तपऐश्वर्येवावृतुवरणे इति संहितया दिवादौ पठ्यते । तत्र वा पदं 'तप ऐश्वर्ये' इत्यनेन संबध्य भौवादिकस्य तप संतापे इत्यस्यैवैश्वर्ये देवादिकत्वं विकल्प्यत इत्येके मन्यन्ते । वा पदमुत्तरसूत्रेण संबध्यत इत्यपरे। तत्रापि वा पदं भौवादिकस्यैव वतु वर्तने धातोवरणेऽर्थे देवादिकत्वं विभाषा विधीयत इत्येक आहुः, धातोरेकदेशे वावृतु-धातुरित्यन्ये'।
१. अत्र क्षीरतरङ्गिणी (४।४८, ४६), धातुप्रदीपः (पृष्ठ ६३) पुरुषकार: (पृष्ठ ६३) धातुवृत्तिश् (पृष्ठ २६३) च द्रष्टव्या।