________________
(२१)
ग - पतगतौवापशानुपसर्गात् इति संहितया चुरादौ पठ्यते । अत्राह क्षीरस्वामी—
पतयति, पतति । वा शब्दस्तुत्तरैकदेशार्थः, वावृतुवत् । १०।२४६ । उत्तरसूत्रे पुनराहः
पशोऽनुपसर्गाद् वादन्तत्वमित्येके - पशयति पाशयति । १०।२५०। अयं व्याख्यानभेदो संहितापाठमाश्रित्यैव संभवति नान्यथा । प्रत एव स्पष्टमाह सायणः -
अत्र स्वामी संहितायां धातुपाठाद् वाशब्दमुत्तरधातुशेषं वष्टि इति । धातुवृत्ति पृष्ठ ३६७।।
उभयथा धातुसूत्रविच्छेदोऽपि पाणिनीयः यः पूर्वत्र संहितापाठ प्रमाणीकृत्य विविधरूपः सूत्रविच्छेदः प्रदर्शितः, स पाणिनीय इति वैयाकरणानां मतम् । इदमेवोररीकृत्य तपऐश्वर्यवावृतुवरणे इत्यत्राह
सायण:
श्रस्माकं तूभयमपि प्रमाणमाचार्येणोभयथा शिष्याणां प्रतिपादनात् । धातुवृत्ति पृष्ठ २९३॥
अस्यायं भावः--धातुपाठं प्रवचता भगवता पाणिनिना केचन शिष्याः 'तप ऐश्वर्ये वा, वृतु वरणे' इत्येवं विच्छिद्य प्रतिपादिताः, अपरे 'तप ऐश्वर्ये, वावृतु वरणे' इत्येवम्' ।
. धातुपाठः सस्वरः
धातुपाठे पुरा उदात्त उदात्तेद् प्रनुदात्त-प्रनुदात्तेत्-स्वरितेतानां धातूनां पाठः सस्वर प्रासादिति धातुपाठ व्याख्यातॄणां वचनाद् विज्ञायते । तद्यथा-
क - श्रत एव चुरादिभूतान् स्वरान्वितान्नाकरोत् । क्षीरतरङ्गिणी (१०।१३१), पृष्ठ ३०६ ।
ख - सायणोऽप्याह - तथा च काश्यपः- कार्याभावादेकश्रुत्या पठ्यन्त इति । धातुवृत्ति पृष्ठ ३७७ । श्राभ्यां प्रमाणाभ्यां ज्ञायते यदन्यत्र धातुपाठे धातवः सस्वराः पठ्यन्ते स्म ।
१. तुलनीयम् - कुतः पुनरयं सन्देहः । ? उभयथा ह्याचार्येण शिष्याः सूत्रं प्रतिपादिताः । केचिद् ‘आकडारादेका संज्ञा' इति केचित् 'प्राक्कडारात् परं कार्यम्' इति महाभाष्य १।४।१ ॥