________________
(२२)
पूर्वधातुपाठानामनुवादः धातुपाठः पाणिनेः प्रोक्तरूपो ग्रन्थो न तु कृतरूपः । प्रोक्तग्रन्थेषु प्रवक्ता पूर्वग्रन्थेभ्य एवोपयोगिनोंऽशान् शब्दतोऽर्थतश्च प्रायेणानुवदति, न तत्र सर्वा वर्णानुपूर्वी प्रवक्तुर्भवतीत्युक्तं पुरस्तात् । अतो यथा पाणिनिना प्रायेण प्राचामाचार्याणां सूत्राण्येवादाय स्वकीयं शब्दानुशासनं प्रोक्तम्, तथैव धातुपाठेऽपि स प्रायेण प्राचामाचार्याणां धातुसूत्राण्येवानूदितवान् इत्यत्र नास्ति लेशतोऽपि संदेहावसरः । तथाहि
१-यथाऽष्टाध्याय्याः सूत्राणि ततः प्राचीनैरापिशल-काशकृत्स्नादिसूत्रः संवदन्ति,' तथैव पाणिनेः धातुसूत्राणि धातूनामाधिक्ये क्रमवैपरीत्येऽपि तत्प्राचीनैः काशकृत्स्नधातुसूत्रैः प्रायेणाक्षरशः संवदन्ति ।
२-यथाष्टाध्याय्यां यत्र तत्र केषांचित् प्राचीनानां श्लोकबद्धसूत्राणां सद्भाव उपलभ्यते, तथैव पाणिनीये धातुपाठेऽपि केषांचित् छन्दोबद्धसूत्राणां सद्भावो दृश्यते । तथाहि___क - भ्वादौ चते चदे च याचने इति पठ्यते (क्षीरत० १६०८) । अत्र चकारो भिन्नक्रमः सन्नपि रेट परिभाषणे इति पूर्वसूत्रनिर्दिष्टं परिभाषणार्थं समुच्चिनोति । तथा सति अन्यत्रेवेहापि याचने च इति पाठेन भाव्यम् । परन्त्वत्र छन्दोऽनुरोधेन चकारो भिन्नक्रमः पठितः । ___चते चदे च याचने इत्यत्र छन्दोऽनुरोधेन चकारो भिन्नक्रम इति तथ्यमविज्ञाय क्षीरस्वामिना पूर्वधातुसमुच्चयार्थ इत्युक्तम् । तेन रे? धातोर्याचनं पारिभाषणं चोभावों विज्ञायते । व्याख्यानं त्विदमयुक्तम्, अन्यत्र क्वचिदपि पूर्वधातुसमुच्चयाय चकारस्यापाठात् ।
१ द्रष्टव्यानि 'सं० व्या० शास्त्र का इतिहास' ग्रन्थस्य तत्तत्प्रकरणे निर्दिष्टानि प्राचां सूत्राणि ।
२. द्र० सं० व्या० शास्त्र का इतिहास', भाग २ पृष्ठ ७५ । ३. 'चते चदे च याचने' इत्यनुष्टुभ एकः पादः ।
४. द्र० 'पक्षि मत्स्यमृगान् हन्ति, परिपन्थं च तिष्ठति' (अप्टा० ४।४।३५. ३६) इति सूत्रेऽनुष्टुभो द्वौ पादौ । उत्तरसूत्रे छन्दोऽनुरोधेन चकारो भिन्नक्रमः । द्र० तदीया काशिका-वृत्तिः ।