________________
(२३) हेमचन्द्राचार्यस्तु क्षीरस्वामिनो व्याख्यानमनुसृत्य 'रेदृग् परिभाषणयाचनयोः' (१८९७) इति सूत्रे विस्पष्टं याचनपदं पपाठ । ___इदं चात्रावधेयम् - चते चदे च याचने इति क्षीरस्व मिनः पाठः । मैत्रेयश्चकारं न पपाठ । सायणः पुनर् याचने च इत्येवं विपर्यस्य सूत्रितवान् । तेन चते-चदे धात्वोः परिभाषणमप्यर्थ इति तस्याभिप्रायः । __ख-स्वादौ ष्टिघ आस्कन्दने, उदात्तावनुदात्तेतौ, तिक तिग च, षघ हिंसायाम् (क्षीरत० ५।२२-२५) इति पठ्यते । इह क्षीरस्वामिमैत्रेयसायणादयः चकारात् स्कन्दनार्थं समुच्चिन्वन्ति । अत्र उदात्तावनुदात्तेतौ इति सूत्रव्यवधानेऽपि चकारः स्कन्दनार्थं समुच्चेतु कथं समर्थ इति नोक्तं वृत्तिकारैः । काशकृत्स्नकातन्त्रहैमशा कटायनधातुपाठेष तिक-तिग-धात्वोहिसार्थत्वमेवोक्तम, न स्कन्दनार्थत्वम् । अपि च षघ हिसायाम (क्षीरत० ५।२५) इत्यत्राह क्षीरस्वामी-तिक तिघ चषध हिंसायाम् इत्येके-चषघ्नोति इति । एतेन ज्ञायते तिक-तिघधात्वोरुपरिष्टात् पठितश्चकारः केषांचिन्मत उत्तरधातोराद्यवयवः । बस्तुतोऽत्रापि ष्टिघ आस्कन्दने तिक, तिग च षघ हिंसायाम् इत्यनुष्टुभो द्वे चरणे कस्यचित् प्राचीनस्य छन्दोबद्धधातुपाठस्यैव पठिते । तेन चकारोऽत्र भिन्नक्रमश्छन्दोनुरोधेन पठितः, न स पूर्वधात्वर्थानुकर्षणार्थो नाप्युत्तरधातोराद्यवयवार्थ इति ।' तस्माच्चकारस्योभयथाऽपि व्याख्यानमसमञ्जसम्, तिकतिगधात्वोहिंसैवार्थः ।। ___ग-चुरादौ उपसर्गाच्चदैर्घ्य (१०।२२६) इति पठ्यते। अत्र क्षीरस्वामी 'चकारं भिन्नक्रममाहः' इति वदन् 'उपसर्गाद् दैर्घ्य च' इति पाठेन भाव्यमिति ज्ञापयति । वयन्त्वत्रापि छन्दोवशादेव चकारो भिन्नक्रमः पठ्यत इत्यनुमिनुमः ।।
१. तुलनीयम् – 'जुड प्रेरणवाची शुठालस्ये गज मार्ज च । शब्दार्थे पचि विस्तारे' इति पुरुषकारोद्धृते (पृष्ठ ५०) श्लोकधातुपाठांशे ‘गज मार्ज च' इत्यत्र पठितेन चकारेण ।।
२. तुलनीयम् – 'यत उपसंस्कारनिकारार्थः स निरश्च धान्य धनवाची' इति पुरुषकारोद्धृते (पृष्ठ ७६) श्लोकधातुपाठांशे 'संनिरश्च' इत्यत्रोपसर्गादुपरिष्टात् पठितेन चकारेण ।