________________
(२४)
घ- चुरादौ धातवः पठ्यन्ते-रच प्रतियत्ने, कल गतौ संख्याने च' चह कल्कने, मह पूजायाम्, शार कृप श्रथ दौर्बल्ये (क्षीर० १०। २५२-२५६।। एते धातव इत्थं पठनीयाः
रच प्रतियत्ने कल, गतौ संख्याने च चह। कल्कने मह पूजायाम्, शार कृप श्रथ दौर्बल्ये॥ .
इत्थं पाठे भुरिगनुष्टुबयं सम्पद्यते । एतैः प्रमाणैर्विस्पष्टं यत् पाणिनेः प्राक् कश्चिद् धातुपाठश्छन्दो बद्ध आसीत् । तस्यैव केचनांशा इह पाणिनीये धातुपाठेऽवशिष्टा दृश्यन्ते। ___३–पाणिनीये धातुपाठे बहुत्र प्रकरणविरोध उपलभ्यते । तथाहि
क-चवर्गान्तेषूदात्तेषु परस्मैपदिषु इकारान्तोऽनुदात्तः क्षि-धातुः पठ्यते । क्षीरत० १११४६।।
ख-उदात्तेष्वन्तःस्थान्तेषु अनुदात्त इकारान्तो जि-धातु । क्षीरत० ११३७४॥
ग-ऊष्मान्तेषु परस्मैपदिषु वान्तः कव-धातुः । क्षीरत० १।४७६।
अयं प्रकरणविरोधः पूर्वाचार्याणामनुरोधत इति पूर्वे वृत्तिकारा आहुः । एतदेवाभिप्रेत्य क्षि क्षये (१।१४६) इत्यत्र वक्ष्यति च इत्युक्त्वा क्षीरस्वामी कस्यचित् प्राचीनस्य धातुगणव्याख्यातुः श्लोकमुपन्यस्यति
पाठमध्येऽनुदात्तानामुदात्तः कथितः क्वचित् ।
अनुदात्तोऽप्युदात्तानां पूर्वेषामनुरोधतः ।। क्षीरत० १११४६। अत्र इदमप्यवधेयम् -काशकृत्स्ने धातुपाठेऽप्येवमेव चवर्गान्तेषूदात्तेषु मध्ये इकारान्तस्यानुदात्तस्य क्षि-धातोः पाठ उपलभ्यते ।
एतेनापि पाणिनीयधातुपाठस्य प्राचां धातुपाठानामनुवादकत्वं विस्पष्टम् ।
श्लोकधातुपाठः पाणिनेः प्राक् कस्यचिच्छ्लोकबद्धो धातुपाठ पासीदिति सम्य