SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ (२५) मुपपादितं पुरस्तात् । अर्वाचीनेष्वपि केषुचिद् ग्रन्थेषु श्लोकधातुपाठस्य केचनांशा उद्धृता उपलभ्यन्ते । तथाहि १-तथा च 'पूरी प्राध्यायने ष्वदास्वाद' इति श्लोकधातुपाठः । पुरुषकार पृष्ठ ४४ । २-यत्तु श्लोकधातुपाठे 'फक्क नोचैर्गतौ तक्क मर्षणे बुक्क भाषणे' इति द्विककारस्तकिः । पुरुषकार पृ० ४७ ।। ३-तथा च श्लोकधातुपाठः –'जड प्रेरणवाची शठालस्ये गज मार्ज च । शब्दार्थे पचि विस्तारे' इति । पुरुषकार पृ० ५० । ४-तथा च- 'गुध रुषि मृद संक्षोदे मृड सुखनार्थे च कुन्थ संश्लेषे' इति श्लोकधातुपाठः । पुरुषकार पृष्ठ ७६ । ५.-श्लोकधातुपाठः –'यत उपसंस्कारनिकारार्थः स निरश्च धान्यधनवाची' इति । पुरुषकार पृष्ठ ७६ । . ६---'विश मृश णुद प्रवेशामर्शक्षेपेषु षद्लु विशरणार्थः' इति च श्लोकधातुपाठः । पुरुषकार पृष्ठ ८३॥ ७-तथा च –'तव' पत ऐश्वर्ये वावृतु वर्तने कासृ दीप्त्यर्थे' इति श्लोकधातुकारः । देवराजीया निघण्टुव्याख्या २।११।२॥ एतैः प्रमाणैः श्लोकबद्धः कश्चिद् धातुपाठः पुरुषकारकर्तुर्लीलाशुकमुनेर्देवराजस्य च काले विद्यमान आसीदिति सुव्यक्तम् । अयं कस्य कृतिरासीदिति न सक्यते वक्तुम् । धातुपाठसंबद्धा अन्ये ग्रन्थाः धातुपाठसम्बद्धा अन्येऽपि केचन ग्रन्था विद्यन्ते । तद्यथा १ ---आख्यातनिघण्ट:-अयं ग्रन्थः पुरुषकारे षगवतितमकारिकाव्याख्यान उद्मियते । पुरुषकारविरचयितुः कृष्ण नीलाशुकमुनेः १. अत्र 'तप' इति युक्तः पाठः स्यात् ।। २. अयं पाठः सत्यव्रतसामश्रमिसम्पादिते निघण्टुव्याख्याने त्रुटितो वर्तते । अस्माभिरयं पाठोऽस्मन्मित्रेण श्रीपण्डितशुचिव्रतशास्त्रिणा सम्पादितान्निघण्टव्याख्यानात् संगृहीतः । शास्त्रिमहोदयैरयं महत्त्वपूर्णो ग्रन्थोऽनेकहस्तलेखानां साहाय्येन महता परिश्रमेण सम्पादितः । नेदानीं (सं० २०४२) यावत् प्रकाश्यं गतः ।
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy