________________
(२६) कालः विक्रमस्य त्रयोदशशताब्द्या उत्तरार्ध इत्यस्माभिः स्वीये 'सं० व्या० शास्त्र का इतिहास' नाम्नि ग्रन्थे (भाग १, पृष्ठ ६६०-६६१; सं० २०४१) सूपपादितः । आख्यातनिघण्टुस्तमात् प्राचीन इति सुव्यक्तम् । अस्य ग्रन्थकर्तुर्नामादि किमपि न ज्ञायते। ____२-आख्यातचन्द्रिका-अस्य कर्ता भट्टमल्लो वर्तते । अयं भट्टमल्लो मल्लिनाथेन नैषधव्याख्याने (४।८४) स्मर्यते । अतः भट्टमल्लो विक्रमस्य चतुर्दशशताब्द्याः पौर्वकालिक इत्येव शक्यते वक्तुम्' ।
आख्यातचन्द्रिका सम्पादकेन वेङ्कटरङ्गनाथस्वामिना सर्वानन्दीयेऽमरटीकासर्वस्वे आख्यातचन्द्रिकाया उद्धरणमस्तीति प्रतिपादितम् (अस्माभिस्तन क्वचिदुपलब्धम्) । यदि रङ्गनाथस्वामिनो वचनं तथ्यं चेत् भट्टमल्लः १२२५ वैक्रमाब्दात् प्राचीन इति निश्चितं शक्यते वक्तुम् । ___एको मल्लः क्षीरस्वामिना विट आक्रोशे (क्षीरत० ११२१६) इति धातुसूत्रव्याख्याने स्मृतः । तथाहि- अत एव विट शब्दे पिट आक्रोशे इति मल्लः पर्यट्टकान्तरे विभङ्ग्याह ।
अयं मल्ल आख्यातचन्द्रिकाया कर्तु भट्टमल्लाद् भिन्न इति 'पर्यट्टकान्तरे विभङ्ग्याह' वचनात् प्रतीयते । सम्भाव्यतेऽयं मल्लः कश्चिद् धातुपाठव्याख्याता स्यात् । ___ वेङ्कटरङ्गनाथस्वामिनाऽऽख्यातचन्द्रिकाया भूमिकायाम् आख्यातानां समाम्नायरूपेणार्थबोधका इमे (३-६) ग्रन्था निर्दिष्टा:
३- कविरहस्यम् हलायुधस्य (सं० १२३०-१२६०)। ४-क्रियाकलापः विद्यानन्दस्य। ५–क्रियापर्यायदीपिका वीरपाण्ड्यस्य । ६-क्रियाकोशः रामचन्द्रस्य । ७-प्रयुक्ताख्यातमज्जरी कविसारङ्गस्य । ८-कियारत्नसमुच्चयः दशबलस्य वरदराजस्य वा। १. द्र० सं० व्या० शा० का इतिहास' भाग २, पृष्ठ ८०; सं० २०४१ ।