________________
(२७)
१०-धातुसंग्रहः-अयं ग्रन्थो मालतीमाधवटीकाकारेण जगद्धरेण १।१७ व्याख्याने स्मृतः । तथाहि
अभिसन्धिर्वञ्चनार्थ इति धातुसंग्रहः ।
जगद्धरस्य १३५० वैक्रमाब्दः काल इत्यैतिहासिकाः संगिरन्ते । तस्मात् प्राक्तनोऽयं धातुसंग्रह इति स्पष्टम् । ग्रन्थकर्तुर्नामादिकं किमपि न ज्ञायते।
११-प्रोष्ठ्यकारिकाः-अयं षटकारिकात्मको लघग्रन्थः । अस्मिन पवर्गीयबकारवतां धातूनां संग्रहो वर्तते । अत्र न सर्वे बकारवन्तो धातवः संकलिताः, तेभ्योऽन्येषामपि बकारवतां धातूनामुपलम्भात्' । इमाः षट्कारिकाः सर्वानन्देनामरटीकासर्वस्व उद्धृताः । अस्यकर्तुर्नामादिकं न विज्ञायते। इतोऽग्रे धातुपाठव्याख्यातॄणां विषये वक्ष्यते ।
धातुवृत्तिकाराः भगवतः पाणिनेः प्रवचनादारभ्याद्य यावदनेकैराचार्य विद्वद्भिश्च धातुपाठस्य व्याख्यानानि व्यरचिषतेत्यत्र नास्ति सन्देहः । तेष केषांचिदेव व्याख्यानान्युपलभ्यन्ते, बहूनां नामान्यपि न ज्ञायन्ते । तत्र येषां धातुवृत्तिकाराणां नामानि विज्ञायन्ते, व्याख्यानानि वोपलभ्यन्ते, त उपरिष्टाद् वर्ण्यन्ते।
१-पाणिनिः ___भगवता पाणिनिनो शब्दानुशासनं प्रवचता तस्य काचिद् वृत्तिरपि शिष्येभ्यः प्रतिपादिता इत्यस्माभिः स्वीये 'संस्कृत व्याकरण शास्त्र का इतिहास' नाम्नि ग्रन्थेऽनेकैः सुदृढः प्रमाणैर्व्यक्तीकृतम् । तद्वदेव पाणिनिना स्वीयधातुपाठं प्रवचता तस्यापि काचिद् वृत्तिः शिष्येभ्यो
१. द्र० अमरटीकासर्वस्व, भाग १ पृष्ठ ८-अर्ब पर्ब बर्ब कर्ब खर्ब गर्ब मर्ब सर्व चर्ब गतौ इत्ययमपि भीमसेनेन पवर्गान्तप्रकरणे पठितः । अत्र अर्व पर्व इत्यन्तस्थपाठोऽमरटीकासर्वस्वे मुद्रितः ।
२. अमरटीकासर्वस्व, भाग १, पृष्ठ ७ । ३. द्रष्टव्यम् – भाग १, पृष्ठ ४७६ ---४८१, सं० २०४१।।