________________
(२८)
ऽवश्यं प्रतिपादिता स्यादित्यनुमानं स्वत एवोदेति । अपि चास्योपोद् बलकानि कानिचित् प्रमाणान्यप्युपलभ्यन्ते । तद्यथा
१-यथाहि पाणिनिनाऽष्टाध्यायी प्रवचता किञ्चित् सूत्रं केभ्यः शिष्येभ्यः कथंचित्, प्रतिपादितम्', अपरेभ्योऽन्यथा वा कस्यचित्, सूत्रस्य केभ्य-छात्रेभ्य काचिद् वृत्तिः प्रतिपादिता, अन्येभ्योऽपरा । तथैव धातुपाठं प्रवचतापि भगवता केभ्योऽन्तेवासिभ्यः 'तप ऐश्वर्ये वा, वृतु वर्तने' इत्येवं सूत्रविच्छेदः प्रदर्शितः, अपरेभ्यः तप ऐश्वर्य, वावृतु वर्तने' इति । एतदेवाभिप्रेत्य धातुवृत्तौ सायणाचार्य पाह- अस्माकं तूभयमपि प्रमाणमुभयथा शिष्याणां प्रतिपादनात् । पृष्ठ २६३ ।
२-उदा तेषु चान्तेषु धातुषु अनुदात्तस्येकारान्तस्य क्षिधातोः पाठकारणं निदर्शयन् क्षीरस्वाम्याहवक्ष्यति च
पाठमध्येऽनुदात्तानामुदात्तः कथितः क्वचित् ।
अनुदात्तोऽप्युदात्तानां पूर्वेषामनुरोधतः । क्षीरत० १।१४६।। ___ अत्र 'वक्ष्यति' क्रियायाः कः कर्तेति न व्यक्तीकृतं क्षीरस्वामिना वयं तू क्षीरस्वामिनो वाक्यविन्यासप्रकारेणानुमिनुमो यद् भगवता पाणिनिना धातूपाठं प्रवचता या तदीया वृत्तिः शिष्येभ्यः प्रतिपादिता, तत्रैवायं श्लोकोऽपि भगवतोपदिष्ट इति । .
. २-सुनागः महाभाष्येऽसकृत् सौनागवात्तिकान्युपलभ्यन्ते । हरदत्तवचना
१. उभयथा ह्याचार्येण शिष्या: सूत्रं प्रतिपादिताः। केचिदाकडारादेका संज्ञा, केचित् प्राक्कडारात् परं कार्यम् । महा० १।४।१॥ शुङ्गाशब्दं स्त्रीलिङ्गमन्ये पठन्ति, ततो ढकं प्रत्युदाहरन्ति-शौङ्गेय इति । द्वयमपि चैतत् प्रमाणमुभयथा सूत्रप्रणयनात् । काशिका ४।१।११८ ॥
२. उभयथा ह्याचार्येण शिष्याः प्रतिपादिताः, केचिद् वाक्यस्य [संप्रसारणसंज्ञां], केचिद् वर्णस्य । भर्तृहरिकृता महाभाष्यदीपिका, पृष्ठ २७०, पूनासं०। सूत्रार्थद्वयमपि चैतदाचार्येण शिष्याः प्रतिपादिताः । काशिका ५॥११५० ।
३. महाभाष्य २।२।१८।। ३।२॥५६॥ ४।१।७४,८७॥ ४।३।१५६।। ६॥१६॥