________________
(२६)
नुसार सुनागनामाऽऽचार्य एषां प्रवक्ता ।' अयं च भगवतः कात्यायनादर्वाचीन इति कैयटव्याख्यानादवसीयते।
वात्तिकप्रवक्त्रा सुनागेन पाणिनीयधातुपाठस्यापि किमपि व्याख्यानमुक्तमिति कतिपयैः प्रमाणैरवगम्यते । तथाहि -
१-विभाषा भावादिकर्मणोः (अष्टा० ७।२।१७) इत्यत्र वृत्तिकृद् वामनः पठति___ सौनागाः कर्मणि निष्ठायां शकेरिटमिच्छन्ति विकल्पेन, अस्यतेर्भावे। २- इदमेव सौनागमतं धातुवृत्तावसकृन्निर्दिशति सायणः ।'
३--क्षीरतरङ्गिण्या आदावन्ते च धात्वर्थसम्बन्धि सौनागमतमित्थमुद्धरति क्षीरस्वामीधातूनामर्थनिर्देशोऽयं निदर्शनार्थ इति सौनागाः । यदाहुः
क्रियावाचित्त्वमाख्यातुमेकोऽत्रार्थः प्रदर्शितः ।
प्रयोगतोऽनुमन्तव्या अनेकार्था हि धातवः ॥ वामनक्षीरस्वामिभ्यामुघृते मते धातुपाठविषयके इति तु स्पष्टमेव । अनयोः प्रतिपादनं भगवता सुनागेन क्व कृतमिति नोक्तमुद्धर्तृभ्याम् । तत्र प्रथमं मतं तदीयवात्तिकपाठेऽपि कथंचित संभवति, नान्यत्र । अतोऽनुमीयते तत्र भगवता सुनागेन पाणिनीयधातुपाठस्य किमपि व्याख्यानं विरचितमिति ।
१. सुनागस्याचार्यस्य शिष्याः सौनागाः । पदमञ्जरी भाग. २, पृ०७६१ ।
२. कात्यायनाभिप्रायमेव प्रदर्शयितु सौनागैरतिविस्तरेण पठितमित्यर्थः । भाष्यप्रदीप २।२॥१८॥
३. शक धातु, पृष्ठ ३०१; अस धातु, पृष्ठ ३०७; शक्ल धातु, पृष्ठ ३१६॥ ___४. क्षीरत० पृष्ठ ४, ३३६ । चुरादौ (पृष्ठ ३३६) द्वितीयं चरणम् 'एककोऽर्थो निदर्शितः' इत्येवं पठ्यते, तृतीयचरणं 'प्रयोगतोऽनुमातव्या' इति । श्लोकोऽयं चान्द्रधातुपाठान्तेऽपि पठ्यते । तत्र तृतीयचरणे 'प्रयोगतोऽनुगन्तव्या' इति पाठः ।